SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ वपद:मू.देव. यशो 1८॥ पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति (तिष्ठति) च निर्व्यापारस्तत्र करोति, चतुर्पु तु स्थानेषु नियमेन करोतिचैत्यगृहे साधुमूले पौषधशालायां 18 नवपदबृगृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि हदृत्तेरुकिञ्चिन्न धारयति, मा तत आकर्षापकर्षों भूतां, यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाक्षीदितिबुद्ध्या, यदिवा गच्छन्न कमपि व्यापार व्यापारयेत् तदा पाद्धातः। गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधून्नमस्कृत्य तत्साक्षिकं सामायिकं पुनः करोति-करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी' त्यादि सूत्रमुच्चार्य, तत ईर्यापथिकों प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्याथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनाविरहितं' ।। अत्र तावत् मतं खरात्मजानां यदुत सामायिकविधौ प्राक् सामायिकोच्चारात् न कार्येर्या, पश्चादत्र सोद्दिष्टेति, परं नेत्रे निमील्य चिन्तनीयं तैर्यदुत ‘सामायिकं करोति-त्यादि सूत्रं समुच्चार्य' इत्यत्रव तवाप्रत्ययान्तेन संबद्धं प्रागेवान्वितं, पश्चात् 'तत ई-पथिकी प्रतिक्रामत्यागमनं चालोचयति तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्ध सर्वासाधून् इत्यादि इत्यादिवाक्येन यो विधिः स्वतन्त्रतया निर्दिष्टः स कथं सामायिकेन संबध्यते ?, अन्यथा साधूनां विरहे न भवत्येव सामायिकमित्यनिष्टमापनीपद्यमानं केन वार्येत?, किंच 'चैत्यगृहै तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवंदनां करोति ततः पठनादि विधत्ते' इत्यत्र किं न दृश्यते खरेस्तैः विनैव पुनः सामायिकोच्चारं कर्त्तव्यतयोक्तमीर्यादि, समालोचने च पौर्वापर्यस्य व्यक्तमेतत् भविष्यति यदुत नैषा सामायिकप्रतिबद्धेर्या, किंतु आगमनालोचनादिप्रतिबद्धेति । अपरंच मतं खरात्मजानां यदुत अपर्वमु पौषधकरणविधिः, तत्र आगमोक्तान्यष्टम्यादीनि पर्वाणि प्रसिद्धान्येव परमष्टाहिकाजन्मादिकल्याणकादीनां ग्रहणार्थं तैराश्रीयते एषा परं वृत्तिः, तदप्यविचारितमेव रमणीयं, यतः प्रथमं तावत् दृश्यतां पूर्वापरसंबन्धयुतः स पाठः __ "चशब्दो न केवलमाहारादीनां चतुर्णा निवर्तन पौषधोवासः, किन्तु तदन्यतमनिवर्तनेऽपीत्यनुक्तसमुच्चयार्थः, कर्त्तव्यः विधेयः स नियमात्-नियमेन ON॥८॥ Jain International For Personal & Private Use Only Kainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy