________________
नवपद
वृत्ति: मू. देव. वृ. यशो
२९६ ।।
चोत्तमराजवंशसंभूताश्चत्वारो राजानः सुहृदोऽभूवन्, एकः काशीविषयाधिपतिः कटकराजो द्वितीयो गजपुरनेता कणेरुदत्तोऽन्यश्च कोशलदेशस्वामी दीर्घनृपतिश्चतुर्थश्चम्पानायकः पुष्पचूलश्चेति, ते चात्यन्तस्नेहेनान्योऽन्यं वियोगमनिच्छन्तः समुदिता एव संवत्सरमेकैकं परिपाट्या विचित्रलीलाविनोदैः स्वस्वराष्ट्रेषु तिष्ठन्तोऽन्यदा मिलिता एव ते ब्रह्मसविधमागता:, तेषां च तत्र तिष्ठतामन्येद्युर्ब्र - ( ग्रं. ९००० ) - नराधिपस्य समुदपादि मन्त्रमणिमूलिकाद्यसाध्यः शिरोरोग:, ततो व्याहृत्य कटकराजादिमित्राणि तदुत्सङ्गवर्त्तिनं विधाय ब्रह्मदत्तं बभाण ब्रह्मराजो यथा भवदुत्सङ्गे मयाऽयं ब्रह्मदत्तः क्षिप्त इति कारयितव्यो राज्यमेष भवद्भिः, एवं कृतराज्यचिन्तो मरणपर्यवसानतया जीवलोकस्य गतः कदाचित्पञ्चत्वं कृतं तद्वयस्यैस्तस्य मृतकृत्यं, गतेषु केषुचिद्दिनेषु पर्यालोचितं कटकराजादिभि:- यथैष ब्रह्मदत्तो यावदद्यापि राज्यधूर्धरणधौरयेतां नात्मसात्करोति तावदस्माभिरेतद्राज्यं पालनीयम्, अतः सर्वसंमतेन दीर्घ एवात्रास्तां, वयं तु स्वस्वराज्यान्यधितिष्ठामः, ततो गतेषु तेषु दीर्घराजः परिपालयितुमारेभे तद्राज्यम्, अवलोकयितुमारब्धो भाण्डागारं, राजकार्याणि चिन्तयितुं प्रवृत्तः समं तदीयमात्रा चुलन्या, ततो दुर्वारतयेन्द्रियाणामवगण्य ब्रह्ममित्रत्वमवमन्य वचनीयं चुलन्यैव सह संलग्नो विषयसुखं सेवितुं गच्छत्सु च दिनेषु केषुचिद् ब्रह्मराजाद्वितियहृदयभूतेन धनुराख्येन मन्त्रिणा विज्ञायैतद्व्यतिकरं य एवमकार्यमाचरति स कथं ब्रह्मदत्तस्योदयमभिलषिष्यतीति चिन्तयता भणितो वरधनुर्निजपुत्रो, यथा-वत्स ! चुलनी तावदियं जाता दुश्चारिणी, तत् ज्ञापय रहसि ब्रह्मदत्तस्यामुमर्थं ततस्तथाकृतेऽनेन कुमारो दुश्चरितमसहमानो मनसा तस्या अवबोधनिमित्तं काककोकिलासंग्रहणं गृहीत्वाऽन्योऽपि य एवं करिष्यति तमहमित्थं निग्रहीष्यामीति वदन् मध्येऽन्तः पुरं प्रविष्टः, अन्यदिने च भद्रकरेणुकया सह सङ्कीर्णगजमादाय तथैवागतः, ततो दीर्घराजः तच्छ्रुत्वा बभाण चुलनीं अहं त्वत्पुत्रेण काकः कल्पितस्त्वं तु कोकिलेति, तयोदितं-बालत्वाद्यद्वा तद्वा ब्रवीति, तेनोक्तं मैवं वोचः, प्रेक्षापूर्वकारितयैवमभिधत्ते, तत्कोमलोऽप्युच्छेद्यतां व्याधिः, व्यापाद्यतामेष आवयो रतिसुखव्याघातकारी, मयि स्वाधीने तवान्येऽपि तनूजा: संपत्स्यन्ते, कामसुखगृद्धया च तयैतद्वचनमचिन्त्यमप्यङ्गीकृतं कर्तुं यतः - "व्यापादयति तनूजं मारयति पतिं विनाशयत्यर्थम् । रागाविष्टा रमणी किं वा तद् यन्न विदधाति ? ॥१॥ तथाऽन्यैरप्युक्तम्- "आधारो मानसानां कपटशतगृहं पत्तनं साहसानां, तृष्णाग्नेर्जन्मभूमिर्मदनजलनिधिः कोपकान्तारपारः । मर्यादाभेदहेतुः कुलमलिनकरी नित्यदुर्ग्राह्यचित्ता, स्त्री नामातीव दुर्गं बहुशयगहनं वैरिणा केन सृष्टम् ? ॥ २॥ भणितं च तया यद्येवं तदा तथा विनाश्यतामसौ यथा जनापवादो न जायते, दीर्घेणोक्तं स्तोकमिदं, तथा विधास्यामि यथा शोभनं सर्वं भविष्यति, यतः कुमारस्य प्रारब्धो वर्त्तते विवाहोत्सव:, तदर्थं च कारयिष्याम्यनेकस्तम्भप्रतिष्ठितं
Jain Educatenational
For Personal & Private Use Only
दोषे
बालमरणे
संभूति
कथा
॥२९६ ॥
library.org