SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। २९४ ।। दुर्लङ्घतया मकरकेतुराजाज्ञायाः चटुलतया रमणीस्वभावानां समजन्यनुरागपरवशा सा तस्मिन्नेव समं तेन प्रवृत्ता विषयसुखमुपभोक्तुं विज्ञातश्चैष व्यतिकरो भूतदत्तेन, केवलं जायेतां सकलकलाकलापपारगौ मत्पुत्रौ तावत्पश्चाद् ज्ञास्याम्यहमेतदुचितमिति बुद्ध्या स्थितमज्ञवृत्त्या, कालान्तरे च कृते स्वपुत्राभ्यां सकलकलासङ्ग्रहे व्यवस्थितो भूतदत्तस्तं हन्तुं विदितपित्राशयाभ्यां च चित्रसंभूतिभ्यामस्मदुपाध्यायोऽयमिति कृतज्ञतया विधाय रहस्यभेदं त्रासितो गतो हस्तिनागपुरे सनत्कुमारचक्रवर्त्तिसमीपं भवितव्यतानियोगेन प्राप्तस्तत्रामात्यत्वम् । इतश्च चित्रसंभूती भूताद्भूतरूपयौवनादिगुणकलापौ मधुरगीतध्वनिना सकलमेव नगरीलोकं विशेषतस्तरुणरमणीसमूहमानन्दयन्तौ बाणारसीनगर्यास्त्रिकचतुष्कचत्वरादिप्रदेशेषु यथेच्छं विलसितुमारेभाते, ततश्चतुर्वेदब्राह्मणैर्विज्ञप्तो राजा - देव ! मातङ्गभूतदत्ताङ्गजचित्रसंभूत्यद्भूतरूपयौवनादिगुणकलापगीताक्षिप्त एष सकलोऽपि नगरलोको न गणयति स्पृश्यास्पृश्यविभागं न लक्षयति स्वपरगुणदोषनिमित्तं, तद्वार्यतामनयोः पुरीमध्ये प्रवेशः, ततः प्रतिपन्ने तद्वचसि भूपालेन निवारितयोस्तयोः समाजगामान्यदा कौमुदीमहोत्सव:, तस्मिंश्च प्रच्छन्नस्थानवर्त्तिनौ प्रवृत्तावेत्तौ लोकमहोत्सवं विलोकयितुं दृष्ट्वा च गतिनृत्यादिव्यापारं जनस्य ताभ्यामपि वस्त्राच्छादितवदनाभ्यामेकस्मिन् प्रदेशे भूत्वा गातुमारब्धं श्रुतिसुखदमाकर्ण्य तदीयगीतध्वनिमुसृज्येतरप्रेक्षणकं तावेवागत्त्य परिवारितौ प्रेक्षकलोकैः, अक्षेपाकृष्टचीवरप्रकटीभूतवदनौ च प्रत्यभिज्ञातौ हतहतेति ब्रुवाणैर्निष्काशितौ नगरीतः, ततो यदि कथञ्चिज्ज्ञास्यति तौ राजा तदा मदीयाऽऽज्ञा लङ्घितेति संजातकोपः प्राणेभ्यः पृथक्कारयिष्यत्यावामिति भयेन पलाय्य गतौ योजनमात्रं भूभागं, जातिदूषणोपजातगुरुनिर्वेदौ च कृतमरणाध्यवसायौ समारूढौ तुङ्गगिरिवरं तस्य चैकस्मिन् विमलशिलातले विकृष्टतपश्चरणशोषितशरीरः शुभध्यानपरायण: कायोत्सर्गव्यवस्थितो दृष्टिपथमवततार तयोर्महामुनिः दृष्टमात्रेऽपि तस्मिन्नानन्दितौ मनसा, गतौ तत्सकाशं, वन्दितवन्तौ भावसारं, साधुना तु ध्यानसमाप्तौ धर्मलाभाशीर्वादपूर्व कुतो भवन्तौ समागतावित्याभाषितौ, ततस्ताभ्यां स्ववृत्तान्तकथनपुरस्सरं निवेदिते निजकाभिप्राये महर्षिणोक्तं भो ! भो ! विज्ञातहेयोपादेयपदार्थसार्थयोर्भवतोर्न युक्तमेवमध्यवसातुं, यदि च सत्यमेव निर्वेदस्तदा कुरुत युवां सकलशारीरमानसासातावन्ध्यकारणक्लिष्टकर्मवनदहनदावानलं जिनेन्द्र भाषितं साधुधर्मं, ततो महाव्याधिपीडितातुराभ्यां सुवैद्यवचनमिवाङ्गीकृतं ताभ्यां तद्वचः, प्रतिपादितं च भगवन् ! प्रयच्छावयोः सकलदुःखविमोक्षणीमात्मीयदीक्षां तेनापि तद्योग्यतामाकलय्य तयोर्दना प्रव्रज्या, कालेन गीतार्थतायां जातायां षष्ठाष्टमदशमद्वादशार्द्धमासमासक्षपणादिविचित्रतपः कर्मादिभिरात्मानं भावयन्तौ ग्रामानुग्रामेण विहरन्तौ कदाचित्प्राप्तौ हस्तिनागपुरं, स्थितौ तद्बहिर्वर्त्तिन्युद्याने, अपरेद्युर्मासक्षपणावसाने पारणकनिमित्तं संभूतिसाधुः प्रविष्टो नगरं उज्झितधर्मिकां भिक्षामभिलषन्नीर्यासमितो गृहे २ पर्यटितुमारेभे, For Personal & Private Use Only Jain Educhternational दोष बालमरणे संभूति कथा ॥२९४॥ library.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy