________________
नवपदवृत्ति:मू.देव.
वृ. यशो ॥२८६॥
प्रदीप इव प्रलयमुपगतो ललिताङ्गदेवः । ततश्च्युत इहैव जम्बूद्वीपे पूर्वविदेहे समुद्रासन्नपुष्कलावतीविजये लोहार्गलनगरस्वामिनः सुवर्णजङ्घाभिधाननरपतेर्लक्ष्मीवत्या श्रेयांस भार्याया वज्रजको नाम राजकुमारो जात:, स्वयंप्रभा तु तद्वियोगशोकाग्निना दह्यमाना तस्मिन्नेव श्रीप्रभे विमाने रतिमप्राप्नुवती प्राक्तनयुगन्धरगुरूपदेशेन कुमार भूयो बोधिलाभनिमित्तं नन्दीश्वरद्वीपादिस्थानेषु जिनायतनपूजामाचरन्ती निर्गम्य कियन्तमपि कालमायु:क्षयेण ततश्युत्वाऽस्मिन्नेव जम्बूद्वीपवर्त्तिविदेहविजये चरित्रं पुण्डरीकिण्यां नगर्यां वैरसेनचक्रवर्त्तिनो गुणवत्या देव्या: श्रीमती नाम्ना सुता जज्ञे, सा च पितृभवने पद्मसरसि हंसिकेव क्रीडन्ती धात्रीजनपरिगृहीता देहोपचयेन कलाकलापेन च वृद्धिमुपागता, क्रमश: समारूढप्रौढयौवना च कदाचित्सर्वतोभद्रप्रासादवर्त्तिनी विलोक्य नगरबहिस्तात् देवसंपातमीहापोहेन सस्मार पूर्वभवं, मोहमुपगता च क्षणं परिवारिकाभिः सिक्ता चन्दनजलेन वीजिता व्यजनवातैलेंभे चैतन्यं, चिन्तयामास चैवं-कथं मया प्राप्य: प्रियो ललिताङ्गकः ? किं वा तद्व्यतिरेकेण मे जीवितेन?, ततोऽङ्गीचकार मौनं, स्वजनपरिजना अप्यवचनामवलोक्य जृम्भकसुरैराक्षिप्ताऽस्या वागित्यादि प्रलपन्त: कारयामासुमन्बयन्त्रादीन्, न च मुमोच मूकतामसौ, अन्यदा च मण्डयित्री धात्री रहस्ये तामवोचद्-वत्से ! यदि कारणेन केनापि मूकत्वमवलम्ब्य व्यस्थिता तदा निवेदय ममाग्रे, मा कदाचिन्ममापि शक्तिर्भवति तत्सिद्धौ, अज्ञाते वस्तुनि कीदृशमुपचारं चिन्तयामि ?, तयाऽवाचि-मात: ! अस्ति कारणं, तथाहि-मम जातिस्मरणमुदपादि, तेन पूर्वभवकान्तो ललिताङ्ककदेवो मया स्मृतः, तं च स्मृत्वा तद्वियोगदहनदंदह्यमानमात्मानं निर्जीवमिव कलयामि, तेन मौनमालम्ब्य स्थिताऽस्मि, तयाऽभाणि-पुत्रि ! न मौनावस्थानेन कार्यसिद्धिः, किन्तूपायेन, तत्साधु कृतं भवत्या यदिदं मम निवेदितं, तथा करोमि संप्रति यथाऽचिरेणैव तव प्रिययोगो भवति, ततोऽनया कारितो महांश्चित्रपटो, लेखितं तत्र यथा कथितं धातकीखण्डप्रभृति देवलोकच्यवनावसानं सविस्तरं तच्चरितं, तदनन्तरं यः कोऽपि राजपुत्रादिस्तत्रायाति स्म तस्य दर्शयामासासौ तं पटं, अन्यदा च लोहार्गलपुरात् समाजगाम केनापि प्रयोजनेन तत्र वज्रजसकुमारः, स चालोक्य तया श्रीमत्यम्बधात्र्या प्रदर्श्यमानं तं चित्रपटं झगिति जातजातिस्मरणो व्याजहार-नन्वहं स ललिताङ्गको यस्यैतच्चरितमालिखितं विद्यते, तत्कथय केनेदं लिखितं ?, न खलु स्वयंप्रभा देवी विमुच्यान्योऽस्यार्थस्याभिज्ञः, तद्दर्शयत ममेदानीं तां, ततस्तुष्टयाऽम्बधात्र्योक्तं-कुमार ! यैषा तव पितृष्वसुर्दुहिता श्रीमती सा स्वयंप्रभा तयेदमालेखितं, तद्यावदहं राज्ञः कथयामि तावत्प्रतीक्षस्व, मा दूरमुन्मनीभूः, एतदुक्त्वा गताऽसौ श्रीमतीसमीपम्, अचकथदमुष्यास्तद्वृत्तान्तं, पश्चाद्राज्ञो निवेद्योभयव्यतिकरं महाविभूत्या पाणिग्राहणपूर्वं संघटयामास कुमारेण सममेतां, विसृष्टा चोत्कृष्टसन्मानेन पितृभ्यां, अन्यदा सार्द्ध निजभा ययौ लोहार्गलनगरं, तत्र सुकृतानुभावासंपद्यमानसमीहितार्थसार्थयोस्त्रिवर्गसारं विषयसुखसंभारमनुभवतोस्तयोरतिजग्मुः कियन्तोऽपि KA
KBV॥२८६॥
Jain EducatL
abional
For Personal Private Use Only
ww.lanelibrary.org