________________
नवपद
वृत्ति: मू. देव. वृ. यशो ।।२७५।।
सत्यमापृच्छ्यते तदा राजगृहादन्यत्र नाहं क्वापि गतः, ततः कथितो मूलत आरभ्य सर्वो निजवृत्तान्तः, केवलं न जानामि तद्गृहनिर्गमप्रवेशं, ततोऽभयकुमारेण चिन्तितं- अहो ! बुद्धिकौशलं वणिक्पत्न्याः येन वयमपि जिता:, ततः कारितं देवकुलं विधापिता तत्र यथाऽवस्थितकृतपुण्यकरूपा लेप्यमयी प्रतिमा, ज्ञापितं पटहकदापनेन नगरे, यथा याः काश्चिदत्र नगरे पुरयः सन्ति ताभिः समागत्यास्मिन् देवकुले सहात्मीयपुत्रपौत्रादिभिः कर्त्तव्याऽभिनवप्रतिष्ठितप्रतिमापूजा, ततस्तामुद्घोषणां श्रुत्वा समागन्तुं प्रवृत्ताः सर्वा एव नगरनार्यः, समं ताभिश्चतसृभिर्निजवधूभिः सपुत्राभिः साऽपि श्रेष्ठिपत्नी समायाता द्वितीयदिने तद्देवकुलं, दृष्टाव कृतपुण्यकेन कथिता अभयकुमारस्य, अत्रान्तरे ते डिम्भका अवलोक्य देवकुलमध्यवर्त्तिनीं कृतपुण्यकाकारां प्रतिमां सोऽयमस्मत्पितेति ब्रुवाणा झगित्येव गत्वा निविष्टाः प्रतिमोत्सङ्गे, ततोऽभयकुमारेणाकारिता सा श्रेष्ठिपत्नी, दर्शयित्वा करालभृकुटीं भणिता, यथा- महादण्डयोग्या त्वं यद्यपि तथाऽपि न त्वां निगृह्णीम:, केवलं समर्पय गृहसारं सह वधूभिः कृतपुण्यकस्य, अन्यथा न भविष्यसि त्वं, एवं भीषयित्वा तां कृतः कृतपुण्यकस्तद्ंगृहस्वामी, पुनरपि स्वीकृतास्ताश्चतस्रोऽपि भार्यास्तेन । साऽपि माधवसेना यत्प्रभृति कृतपुण्यको निष्काशितो गृहात्स्वजनन्या तत्प्रभृत्येव त्यक्तशरीरालङ्कृतिर्विहितवेणीबन्धा सततविरचिततदन्वेषणाऽपि तच्छुद्धिमलभमाना तस्थावपरपुरुषपरिहारेण, तदा च विज्ञातदेवकुलिकाव्यतिकरा समागता यक्षं पूजयितुं दृष्टश्च तत्राभयकुमारेण सह विश्रम्भवात् कथयन् कृतपुण्यको, निरुपमानन्दमनुभवन्ती मिलिता कृतपुण्यकस्य, जगाद च निश्शेषमहीमण्डलपर्यटितैरपि न ते क्वचिद्वार्त्ता । लब्धा मदीयपुरुषैर्द्वादश वर्षाणि यावदिह ||१|| अद्य पुनः शर्वर्याश्चरमप्रहरे त्वदाकृतिधरेण । स्वप्ने केनापि यथा, प्रियाऽहमालिङ्गिता बुद्धा || २ || निर्गच्छन्त्याश्च गृहाद्यथा बभूवुर्मनोरमाः शकुनाः । वामाक्षिस्फुरणादि च यथा तथा ज्ञातमद्य मया || ३ || नूनं प्रियेण सार्द्धं भवता मम दर्शनं तदेतन्मे । संजातममृतवर्षणमिव पुण्यैर्जलधराभावे ||४|| ततोऽसावपि प्रतिगृहीता तेन, तत्प्रभृति च सप्तभिर्भार्याभिः सह जन्मानन्तरप्रदत्तमहामुनिदानानुभावोपात्तप्रकृष्टपुण्यसंभारसंपद्यमानानवद्यत्रिवर्गसारं बुद्धजनप्रशंसनीयं जीवलोकसुखमनुभवतोऽतिचक्राम कियानपि कालः । अन्यदा च सुरविसरसंपूज्यमानचरणकमलोऽनुपमां घातिकर्मक्षयाविर्भूतकेवलज्ञानसम्पदं भुवनत्रयातिशायिनीमनुभवन् समवससार गुणशिलकचैत्ये भगवान् महावीरः, विरचितं देवैः समवसरणं निविष्टस्तत्र पूर्वाभिमुखो ज्ञातकुलतिलकः, उद्यानपालकादवगततदागमनो वन्दनाय समाजगाम सममभयकुमारकृतपुण्यकादिभिरवाप्तक्षायिकसम्यक्त्वप्रमुखगुणश्रेणिः श्रेणिको, वन्दितवान् भक्तिसारं त्रिलोकबन्धुम्, उचितभूमिकोपविष्टः शुश्राव परमगुरुदेशनां, कथान्तरे च ललाटतटविनिवेशितकरकमलकुड्मलो व्यजिज्ञपदभयकुमारः - स्वामिन् ! किमनेन कृतपुण्यकेन पूर्वभवे कृतं
For Personal & Private Use Only
Jain Educatiomational
॥२७५॥
www.porary.org