________________
शुमविक.
॥१४॥
च्छुस्तत्वनिर्णिनीपुरित्ययः । अयं च द्वेधा स्वात्मनि परत्र च । अयमिति तत्वनिर्णिनीषुः कश्चित्खलु संदेहायुपहतचेतोवृत्तिः ।
स्वाादमा. स्वात्मनि तत्त्वं निर्णेतुमिच्छत्यपरस्तु परानुग्रहिकतया परत्र तथेति द्वेधाऽसौ तत्त्वनिर्णिनीषुः, सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णय चिकीर्षरित्यर्थः । तदिदमिह रहस्यम् । परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीपोरानुषङ्गिकं फलं जयो मुख्यं तु परतत्त्वावबोधनम् । जिगीषोस्तु विपर्यय इति । प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनी | प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म । वादिप्रतिवादिसिद्धान्ततत्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः । वादिप्रतिवादि| नोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविवरणं यथासंभवं सभायां कथाफलकथनं चैषां कर्माणि । उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यमित्येकः । स्वात्मनि तत्वनिर्णिनीषुः परश्च परत्र द्वौ वा परस्परमित्येवं द्वावपि यदा तत्त्वनिर्णिनीपू भवतः तदा यावता तत्त्वस्य निर्णयो भवति तावत्ताभ्यां स्फूतौ सत्यां वक्तव्यम् । अनिणये च यावत्स्फुरति तावद्वक्तव्यम् । एवं च स्थितमेतत् "स्वं स्वं दर्शनमाश्रित्य, सम्यक् साधनदूषणैः' जिगीषोनिर्णिनीपोळ, वाद एकः कथा भवेत् । १ । भङ्गः कथात्रयस्यात्र, निग्रहस्थाननिर्णयः । श्रीमद्रत्नाकरग्रन्थाद्धीधनैरवधार्यताम् ।। श्रीहीरविजयसूरीश्वरचरणाम्भोजचश्चरीकेण । शुभविजयाभिधशिशुना हन्धा स्याद्वादभाषेयम् । ३ । इति श्रीहरिविजयसूरीश्वरशिष्यपण्डितशुभ विजयगणिना श्रीविजयदेवसूरीश्वरनिर्देशात् प्रमाणनयतत्त्वप्रकाशिकापरनाम्नी स्याद्वादभाषा समर्थिता ।।
॥ इति श्रीशुभविजयकृता स्याद्वादभाषा समाप्ता ||
॥१४॥
Jain Educa
t
ional
For Personal & Private Use Only
dinelibrary.org