________________
ROGRASSES
शक्यन्ते नैव सर्वथा ॥ ४० ॥ कायवाकर्मवृत्त्यापि, गुणदोषे न निश्चयः॥ बुद्धिपूर्वाऽन्यथापि स्याच्छैलूषस्येव संसदि ॥४१॥ न यतो वीतरागत्वे, तथा चेष्टोपपद्यते॥ क्लिष्टा प्रयोजनाऽभावा-ननु तत् किंन निश्चयः ॥४२॥तथा नाम स्वभावत्वे,भवोपग्राहिकर्मणः।।कदाचिदुचितैषैव,ततः किंनोपपद्यते?।।४३|| साक्षादगम्यमानेषु, ततस्तत्र विनिश्चयः ॥ त एवं नैवमिति वा, छद्मस्थस्य न युज्यते ॥४४॥ न चात्र यस्तु सर्वज्ञः, स वक्ता नेति शक्यते॥ वक्तुं तथाऽप्रसिद्धत्वा-दुच्यते चेन्न युक्तिमत् ॥४५॥ तदभावादथावृत्ति-स्तव हेतोर्न मानतः ॥ स सिद्ध इति सन्यायाद्, व्यतिरेको न पुष्कलः ॥ ४६॥
यचोक्तं न वक्तृत्वमदेहस्य' (श्लो२०) इत्यादिना वक्तृत्वं रागादिनिबन्धनमिति, एतदपि पारम्पर्येण तेषां तन्निवन्धनत्वे दोषाभावात् अबाधकमेव, इष्यन्त एव हि भगवतोऽतीता रागादयः, न च तन्निवृत्ती तत्कार्यत्वेन तदैव देहनिवृत्तिप्रसङ्गः, तेषां तन्निमित्तकारणत्वात् तदभावेऽपि कार्यस्य कियन्तमपि कालमवस्थानाविरोधात्, खनित्राद्यभावेऽपि घटादिविनाशासिदे, उपादाननिबन्धनं किमस्य वक्तृत्वस्येति चे?, उच्यते, भाषाद्रव्याण्यात्मप्रयत्नश्च, अत एव कचित् प्रक्रान्तवस्तुनि रागाद्यभावेऽपि सतां साक्षादेव वक्तृत्वोपलब्धेः, अन्यथा तदभावप्रसङ्गात्, तथा सति व्यवहारोच्छेद इति, यचोक्तं-'विवक्षया च वक्तृत्वम्' (श्लो०२१) इत्यादि, एतदप्ययुक्तं, विवक्षामन्तरेणापि कचित् वक्तृत्वसिद्धेः, सुप्तमत्तादिषु तथादर्शनात्, तत्रापि साऽस्त्येवेतिचेत्, न, तथा प्रतीत्यभावात्, प्रबुद्धादावुक्तस्मरणानुपलब्धेः, तथापि
२२
COREACHECK
Jain Education
For Persons & Private Lise Only
ww.jainelibrary.org