________________
Jain Education Inte
੨੫੪
स्मात् पुरुषात् ज्ञायत इति चेत्, सोऽपि तेन तुल्यः नैवजातीयकेष्वतीन्द्रियेष्वर्थेषु तज्ज्ञानप्रामाण्यमुपैत्यन्धानामिव ज्ञानं रूपविशेषेष्विति, एतेनानादिवृद्धसम्प्रदायः प्रत्युक्तः, सर्वेषामेवात्र वस्तुन्यन्धतुल्यत्वात्, अधिकृतवचनादेवासौ विज्ञायत इति चेत्, न, वाक्यार्थप्रतिपत्तावपि तन्निश्चयानुपपत्तेः, लौकिकवाक्ये क्वचित्तद्भावेऽप्यर्थातथाभावदर्शनात् तस्य पुरुषबुद्धिप्रभवत्वेन तदायत्तोर्थातथाभावो नैवमस्य अपौरुषेयत्वादिति चेत्, न, एवमप्यधिकृतभेदवत्तदर्थ भेदाशङ्कापत्तेः, प्रदीपवत् स्वार्थप्रकाशनाद् नापत्तिरितिचेत् न, प्रदीपार्थवदविशेषेण तदर्थप्रतिपत्त्य सिद्धेः सङ्केतादनेकधा तदर्थोपलब्धेः, तत्स्वभावत्वादनेकार्थत्वाच्च तस्यादोष इति चेत्, न, तथा विरुद्धार्थानुपपत्तेः, दृश्यते च 'स सर्वविद्यस्य' इत्यादौ सङ्केतभेदेन तदस्तित्वविरुद्धार्थप्रकाशनमिति, नास्तित्वमेव तत्राविपरीतमिति चेत्, न, इतरप्रकाशनानुपपत्तेः, प्रदीपेन्दीवररक्तप्रकाशवदुपपत्तिरिति चेत्, न, अविशेषेण तत्प्रकाशनप्रसङ्गात्, अदृष्टदोषात् तत् तथा प्रकाशनमिति चेत्, न, इतरत्राप्यविश्रम्भप्रसङ्गात्, तदेवाहष्टदोषात् नेतरदिति निश्चायकमाणाभावात्, अतीन्द्रियार्थत्वाद् तत्साक्षात्कारिणश्चानभ्युपगमात्, तद्व्यतिरेकेण च तद्विशेषावगोपायाभावादिति समाश्रीयतामतीन्द्रियार्थसाक्षात्कारी, तदभावे सतीष्टार्थासिद्धिरिति, तद्भावेऽप्यतादृशस्यातीन्द्रियार्थत्वात् तद्विवक्षावगमोपायाभाव इति चेत्, न, शब्दस्य प्रयोगकुशलप्रयुक्तस्य कचित् तदवगमनस्वभावत्वात्, अर्थमात्रप्रतिपत्त्या प्रतारके तयाथात्म्यानवगम इति चेत्, न, भगवतो वीत
For Personal & Private Use Only
jainelibrary.org