________________
241
याप्रमाणेन ग्रहणानभ्युप्ताहि-तबाहकं न च त पटादिग्राहकेण प्रमाणाताही
गृह्यत इत्यसिद्धं, विकल्पानुपपत्तेः, तथाहि-किं प्रमाणेन न गृह्यते उताप्रमाणेन वेति वाच्यं ?, यद्यप्रमाणेन, सिद्धं साध्यते, तस्याप्रमाणेन ग्रहणानभ्युपगमात्, अथ प्रमाणेन, किं तद्ग्राहकेणोतातग्राहकेणेति?, न तावत्तद्ग्राहकेण, तस्य तदग्रहणविरोधात्, तथाहि-तद्वाहकं न च तद् गृह्णातीतिविरुद्धमेतत्, अतद्वाहकाग्रहणे तु तदभावासिद्धिः,तदभावेऽपि घटादिभावसिद्धेः, तथाहि-न पटादिग्राहकेण प्रमाणेनागृह्यमाणा अपि सन्तो न सन्त्येव घटादयः, तदृग्राहकं प्रमाणमेव नास्तीति चेत्, उच्यते, किं भवत एवोताहो सर्वप्रमातृणामिति ?, यदि भवत एव, सिद्धं साध्यते, भवतः परोक्षत्वात् प्रवचनार्थानवगतेश्च, अथ सर्वप्रमातृणामिति, अत्र न प्रमाणं, तचेतसामप्रत्यक्षत्वाद् , अन्यथा तदभावनिश्चयानुपपत्तेः, तत्प्रत्यक्षताभ्युपगमे च तत्संवेदनवतः तथाऽतीन्द्रियोपलम्भकत्वाभ्युपगमात् तद्भावसिद्धिरेव, प्रधानादीनामप्येवं प्रतिषेधानुपपत्तितः तत्सत्तापत्तेर्यत्किञ्चिदेतदिति चेत्, न,स्वतोऽदर्शनादतीन्द्रियोपलम्भकपुरुषवचनत औत्सुक्यानुपपत्तेश्च तत्प्रतिषेधसिद्धेः, असर्वज्ञेन तद्वहणमपि न युक्त्युपपन्नमिति चेत्, न, हृद्गताशेषसंशयच्छेदादिना तद्हणोपपत्तेः । असम्पूर्णवैयाकरणादिभिरप्यवगतकतिपयपृष्टसूत्रादिकथितयथावस्थितार्थतत्त्वैः सम्पूर्णवैयाकरणादिग्रहणदर्शनात्, सर्वत्र तथा तद्व्यवहारसिद्धः, अन्यथा तदुच्छेदप्रसङ्गात्, अब्राह्मणेन ब्राह्मणपरिज्ञानानुपपत्तेः, तत्स्वयंकथनस्य सर्वज्ञेऽपि तुल्यत्वादू, हृद्गताशेषसंशयपरिच्छेद्यपीदानीं न कश्चिदुपलभ्यत इति चेत्, सत्यमिदं, इहेदानीं कालदोषतस्तदनभ्युपगमात्, तदानीमासीदित्यपि कथं ज्ञायत
%ECAUSA
Jain Education in
For Personal & Private Use Only
K
w.jainelibrary.org