SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०१ 1 यतिधर्मनिरूपका चतुर्थोऽध्यायः प्रव्राज्याहंगुणाः॥ प्रशस्तभावक्रियेति ॥८७॥ तथा-भवस्थितिप्रेक्षणमिति ॥८८॥ तदनु तन्नैर्गुण्यभावनेति ॥८९॥तथा-अपवर्गालोचनमिति ॥९०॥ तथा-श्रामण्यानुराग इति ॥९१॥ तथा-यथोचितं गुणवृद्धिरिति ॥९॥ तथा-सत्त्वादिषु मैत्र्यादियोग इतीति॥९३॥ विशेषतो गृहस्थस्य, धर्म उक्तो जिनोत्तमैः। एवं सद्भावनासारः, परं चारित्रकारणम् ॥१४॥ पदंपदेन मेधावी, यथाऽऽरोहति पर्वतम् ॥सम्यक् तथैव नियमा-धीरश्चारित्रपर्वतम् ॥१७॥ स्तोकान् गुणान् समाराध्य, बहूनामपि जायते॥यस्मादाराधनायोग्य-स्तस्मादादावयं मतः ॥१८।। इति ॥ ॥अथ चतुर्थोऽध्यायः॥ साम्प्रतं चतुर्थ आरभ्यते, तस्य चेदमादिसूत्रम् ।। एवं विधिसमायुक्तः, सेवमानो गृहाश्रमम् ॥ चारित्रमोहनीयेन, मुच्यते पापकर्मणा ॥ १९॥ सदाज्ञाऽऽराधनायोगा-द्भावशुद्धेर्नियोगतः॥ उपायसम्प्रवृत्तेश्च, सम्यक्चारित्ररागतः॥२०॥ विशुद्धं सदनुष्ठानं, स्तोकमप्यर्हतां मतम् ॥ तत्त्वेन तेन च प्रत्या-ख्यानं ज्ञात्वा सुबह्वपि ॥२१॥ इति ॥ विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्याम इति ॥१॥ अर्हः अहंसमीपे विधिप्रव्रजितो यतिरिति ॥२॥ अथ प्रव्रज्याह:-आर्यदेशोत्पन्नः १ विशिष्टजातिकुलान्वितः २ क्षीणप्रायकर्ममल: ३ तत एव विमलबुद्धिः ४ "दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, संपदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाकः,” इत्यवगतसंसारनैर्गुण्यः५ तत एव तद्विरक्तः६प्रतनुकषायः७ अल्पहास्यादिः८ कृतज्ञः९विनीतः १० प्रागपि राजामात्यपौरजनबहुमतः ११ अद्रोहकारी १२ कल्याणाङ्ग:१३ श्राद्धः१४ स्थिरः१५ समुपसम्पन्न १६ श्चेति ॥३॥ Jain Educatio n al For Personal & Private Use Only |www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy