SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्चयः॥ स्थिरादृष्टि स्वरूपम् ॥ अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः ॥१५६ ॥ एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः ॥१५७ ॥ न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः॥ १५८ ॥ धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥ १५९ ॥ भागात्तादच्छाविरतिः स्कन्धभारापनुत्तये । स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः । ॥ १६० ॥ कान्तायामेतदन्येषां प्रीतये धारणा परा । अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया ॥ १६१ ॥ अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः। प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥ १६२ ॥ श्रुतधर्मे मनो नित्यं कायस्तस्यान्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥१६३॥ १ अपरैरप्यस्यां स्थिरायां दृष्टावमी गुणाः प्रोक्ताः॥ अलौल्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् ॥ कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥१॥ मैत्र्यादियुक्तं विषयेष्वचेतः, प्रभाववद्धैर्यसमन्वितं च ॥ द्वन्द्वैरधृष्यत्वमभीष्टलाभः, जनप्रियत्वं च तथा परं स्यात् ॥ २॥ दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी ॥ वैरादिनाशोऽथ ऋतंभरा धीनिष्पन्नयोगस्य तु चितमेतत् ॥ ३॥ Jain Education in en For Personal & Private Use Only W w w.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy