________________
यशोधर
॥ ४३ ॥
छापि प्रतिपन्नौ स्तः । परस्पर निबईणं || दंतादेति महोत्पातै - रपसृत्यापसृत्य च ॥ ॥ २० ॥ एवं तयोः प्रहरतोः स्फुरितावलेप - व्याक्षेपवेपथुविशेषजुवोरकस्मात् ॥ आगत्य कोSपि वनमध्य विहारकारी । मामग्रहीद् डुतमदृष्टचरस्तरक्षुः ॥ २१ ॥ चिरचिरिति चर्म दलयन् । धमनीरपकर्षयन् त्रटनटिति ॥ कटकटिति खंडितास्थि - घुडघुडितिनिपीतरुधिरजरः ||२२|| स तथा स्वादितुं लग्नो । जक्ष्यमाणं च वीक्ष्य मां ॥ जीतेनेव यथा त्यक्तं । जीवेनाशु कलेवरं ।। २३ ।। सोऽपि प्रचंडभुजगः । कणादेव व्यपद्यत || प्रहारजर्जरतनु-विलुठन्नवनीतले ॥ २४ ॥ यत्कर्म निर्मितं येन । तत्तस्यैवोपतिष्टति । न ह्यन्यस्यातिभुक्तेन । परस्य घ्रातसंज्जवः ॥ २५ ॥ मां नीलकंठवपुषं प्रहरन्नृपेण । व्यापादितो गतनवे यदि सारमेयः ॥ तं सर्परूपिणमदं प्रहरन्नकाले । निःशेषितोऽस्मि नकुलोऽपि तरक्षुणा तत् ॥ २६ ॥ इदं त्वया भूप जवांतरं । श्रुतं द्वितीयं नकुलोरगीयं ॥ विचित्रकर्मोदयसूत्रधार - प्रणीतरूपच्यनाट्यरौषं ॥ २७ ॥
॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे पंचमः सर्गः समाप्तः ॥ श्रीरस्तु
Jain Education International
For Personal & Private Use Only
चरिवं
॥ ४३ ॥
www.jainelibrary.org