________________
दOOK
मेस्त्रयो दशी कथा
इत्थमनेन जीवेन कर्म बद्धमनेकशः । तेन परियं जातः पुत्रो दुःखाकरस्तव ।। २०१॥ राजा पप्रच्छ हेनाथ ! उपायः कोपी कथ्यताम् । यस्यासेवनमात्रेण पुत्ररोगात्ययो भवेत् ।। २०२ ।। मुनिः प्रोवाच हे राजन् ! तृतीयारकशेषके । सार्धाष्टमासत्रिवर्षे माघकृष्णत्रयोदशी ।। २०३ ।। अत्यन्तरमणीयामीद् यस्यां श्रीऋषभप्रभोः। निर्वाणमभवत्तेन तिथिः कल्याणकारिणी ॥ २०४। तस्यां चतुर्विधाहारपरित्यागं विधाय भोः । उपवासो हि कर्तव्यः कर्मरोगविनाशकः ।। २०५ ॥ ढौकनीयश्च रत्नस्य जिनाग्रे मेरुपञ्चकम् । मध्य एको महान्मेरुश्चत्वारो लघवो दिशि ।। २०६॥ चतुर्दिक्ष तथा नन्द्यावर्ताः कार्याःप्रयत्नतः । तावन्त एव यावन्तो मेरवो लघवःकृताः ॥ २०७।। धृपदीपादिभिर्द्रव्यैः पूजाकार्याजिनेशितुः । मासाँस्त्रयोदश यावत्ताववर्ष तथैव वा ।। २०८ ।।
॥ ॐ हा श्री ऋषभदेवपारङ्गताय नमः ।। (मंत्र) पारङ्गताय देवाय नामेयाय नमो नमः । सहमद यवारश्च जपनीयमिदं मुदा ।।२०१॥ प्रतिमासं प्रकुर्वन सन्नेवं धर्मपरायणः । रोगहीनो भवेज्जीवः परत्रावि सुखी भवेत् ॥ २१ ॥ पौषधस्थेस्त्रयोदश्यां विधिः कतुन पार्यते । पारणकदिने कार्यस्तस्याविधिः समग्रतः २११ ॥
अतिथिसंविभागश्चकृत्वा भुञ्जीत मानवः । इत्थं गुरुवचः श्रुत्वा व्रतं लात्वा गृहं गतः ॥ २१२ ।। र सपुत्रोनन्तवीर्यस्य सकलत्रोऽभवत्सुखी । धर्मध्यानप्रभादेण धर्मः कल्पद्रुम खलु ।। २१३ ।।
Jain Education Inte
For Personal & Private Use Only
walainelibrary.org