SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Jain Educatio 324 मुष्मिन् परः ॥ २७७ ॥ एकस्यापि महात्मनोऽस्ति चरितं यस्मिंस्तदप्यास्पदं, कल्याणस्य न कस्य यत्पुनरलंचक्रुस्त एतेद्भुताः । श्रीनेमिर्मुशली हरि-प्रतिहरी पाण्डोः सुताः कौरवा, भीष्मः कर्ण - कृपादयश्च बहवस्तस्यास्य किं ब्रूमहे ॥ २७८ ॥ किं त्वस्मिन्नियमस्ति दोषकणिका वक्ता यदस्मादृशः सन्तः सच्चरितामृतैकरसिकास्तस्यामनास्थापराः । सौरभ्यस्पृहयावतंसपदवीं पङ्केरुहं लम्भयन् पङ्कोत्पत्तिकलङ्कमस्य मतिमान् को नाम मीमांसते १ || २७९ ।। षष्ठाङ्गोपनिष - त्रिषष्टिचरिताद्यालोक्य कौतूहला-देतत् कन्दलयांचकार चरितं पाण्डोः सुतानामहम् । तत्राज्ञानतमस्तिरस्कृतिवशादुत्सूत्रमासूत्रयं, यत्किचिन्ननु मय्यनुग्रहविया शोध्यं तदेतद्बुधैः ॥ २८० ॥ यावत् संसारतापव्यतिकरभिदुरा वागू जिनानां मुनीन्द्रप्रज्ञाकान्तावगाढा विधुरयति सुधादीर्घिकादर्पमुद्राम् । तावन्निर्निद्रकार्तस्वरकमलकलां पुष्पदश्रान्तमस्यां tional विश्वं विद्वद्विरेफार्पितमहिममहाकाव्यमेतद्धिनोतु ॥ २८१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये बलदेवस्वर्गगमनश्रीनेमिनाथपाण्डवनिर्वाणवर्णनो नामाष्टादशः सर्गः ॥ १८ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy