________________
307
तद्वाच-मुच्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु, क्षिपन्तं कंचिदैक्षत ॥ ६६ ॥ तमप्यभिदधे गावः, कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति गताः कङ्कालशेषताम् १ ॥ ६७ ॥ तेनाप्यूचे बलः पद्भ्यां गन्ता चेदेषं संस्थितः । चरितारस्तदा गावोऽप्यमूर्वाङ्कुरानिमान् ॥ ६८ ॥
रामोऽथाचिन्तयत् सत्यं किं मृतोऽयं ममानुजः १ । वदन्ति यदमी सर्वे ऽप्येकरूपमिदं वचः ॥ ६९ ॥ यावदित्याप्तचैतन्यः, किंचिच्चलति लाङ्गली । तावदुद्योतिताऽऽशान्तः कश्चिदस्थात् पुरः सुरः ॥ ७० ॥ सोऽब्रवीत् सीरिणं सोsहं, सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य, देवभूयमुपागमम् ॥ ७१ ॥ स्मरस्येतत् परिव्रज्या - काले मामर्थयिष्यसे । यन्मामभ्युद्धरेजतु, पतन्तं व्यसनार्णवे ।। ७२ ।। तत्त्वामिदानीमालोक्य मोहनिद्राविसंस्थलम् । प्रबोधयितुमभ्यागां, तां तवास्यर्थनां स्मरन् ॥ ७३ ॥ श्रीनेमिना पुरा मृत्यु- र्मुरारातेर्जरासुतात् । यदूचे तत्तथैवाभू-दन्यथा नार्हतां गिरः ॥ ७४ ॥ एतान्यश्म - रथादीनि, वैकृतानि कियन्त्यपि । भ्रातर्मोहव्यपोहाय दर्शितानि मयैव ते ॥ ७५ ॥ विमुच्य तमिमं मोहं, संदोहं दुःखसंपदाम् । आत्मनीनं महत् किंचित् कर्म निर्मीयतां त्वया ॥ ७६ ॥ बन्धवः खल्ववाप्यन्ते, जीवैर्जन्मनि जन्मनि । किं तु ते मोहसैन्यैक - केतवो भवहेतवः ॥ ७७ ॥ जीवाः सर्वे हहा ! बन्धु-संहतिस्नेहमोहिताः । दुःखष्ठोष - क्षमे कर्म - युत्सहन्ते न जातुचित् ॥ ७८ ॥ बन्धुस्नेहोऽतराम्भोधि - रेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्राम - धाम तद्विधुनीहि तम् ॥ ७९ ॥
१ कङ्कालः - अस्थिपिञ्जरम् । २ मृतः । ३ ' श्रत: !' प्रतिद्वय० ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org