________________
श्रीधन्य
चरित्रम्
॥ ४८४ ॥
द्वात्रिंशत्प्रयागणोऽस्ति, युष्माकं तु अष्टावेव प्रियाः सन्तिः, चेत् वीरवीरा यूयं तदाऽष्टौ एकहेलया कथं न त्यजथ ?' । एतत् प्रियावाक्यं श्रुत्वा सहर्षं धन्येनोक्तम्- 'अहो ! साधूक्तं भवत्य, कुलवतीनामीदृशानि वाक्यानि | भवन्ति या अवसरे हितकारि वाक्यं वदन्ति । अतो मयाऽष्टावपि प्रियास्त्यक्ताः' । इत्युक्त्वा तत्क्षणं प्रियास्त्यक्त्वा चारित्रग्रहणायोद्यतो जातः । प्रियाश्च प्रतिबोध्य चारित्रग्रहणोन्मुखीकृताः, शालेर्विलम्बस्त्याजितः । इदमपि महाश्चर्यम्" इति धन्यस्य पञ्च महाश्चर्याणि |
इत्येवं मया धन्यमुनेः शालिभद्रमुनेश्च चरितं संस्कृताभासजल्पमयं गद्यबन्धेन लिखितं तन्न स्वचातुर्यदर्शनार्थं, न पाण्डित्यदर्शनार्थं न चाऽन्येन केनापीर्ष्यादिकारणेन, किन्तु ये आधुनिकाः संयतगणास्तेषां मध्ये ये केचन प्रज्ञावन्तः शब्दादिशास्त्रेषु कुशलास्ते सर्वशास्त्राणां निर्वाहं कुर्वन्ति, परं ते तु स्तोकतराः । ये च केचन किञ्चिदधीत्य किञ्चिन्निशम्य च खण्डपाण्डित्यदृप्तास्ते पूर्वाचार्यकृतगद्य-पद्यमयग्रन्थानां यथामत्यनुसारेण कष्टपूर्वकं निर्वाहं कुर्वन्ति । ये चाऽवशिष्टा बहवस्ते तु पद्यमयं ग्रन्थं द्रष्टुमसमर्थास्तर्हि वाचने का कथा ?, तथा परिपक्वगद्यमयाः पूर्वसूरिग्रन्थास्तेषामपि वाचनेऽसमर्थाः, अथ ते लोकभाषामयबालावबोधकृतग्रन्थान् वाचयितुं लज्जन्ते - अहो ! एतावन्तो वृद्धा भूत्वा लोकभाषामेव वाचयामः ।' इति लज्जमाना:, तेषां शिष्य-प्रशिष्य-गुरुभ्रात्रादीनां प्रार्थनया एतत्सरलरचनामयं चरित्रं कृतम् । बालभद्रका जानन्ति - 'एतेऽपि गीर्वाणभाषामयं शास्त्रं व्याख्याने वाचयन्ति', एतदर्थं मया बालविलसितं कृतम्, न त्वन्यो हेतुः । अतो ये सन्तो भवन्ति तेषां पादानभिवन्द्य प्रार्थनां करोमि 'यदस्मिन् अशुद्धम् अशुद्धतरं भवेत् तन्ममोपरि महतीं कृपां कृत्वा शोध्यं यथा मम बालस्य हास्यं न भवेत्, प्रतिष्ठा च भवेत् ।
Jain Education International
For Personal & Private Use Only
नवमः पल्लव:
||| ४८४ ॥
www.jainelibrary.org