SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥८३॥ DIGHONGK स्पतनं कृतम्, एतेषु यथासंभवमभिगमनवन्दन पूजनोत्कीर्त्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति श्रीआ० टीकायां, शत्रुञ्जयमाहात्म्ये च ' यावद्भरतचक्रवर्त्तिनः सङ्घपतित्व' मित्यादि सुव्यक्तमेव, नच शत्रुञ्जयमाहात्म्यमस्माकमसम्मतमिति वाच्यं तव सम्मतासम्मतविचारोऽस्माकमकिञ्चित्कर एवेति प्रागेव दर्शितः, किंच - शत्रुञ्जयमाहात्म्यादेरसम्मतत्वं कुत इत्युक्ते प्रकरणत्वादेवेति तव वचः 'ननु जहा से सामाइ आण' मितिगाथयैव प्राकू तिरस्कृतम्, अग्रे च प्रकरणादीनां प्रामाण्ये सिद्ध एवाङ्गोपाङ्गादीनां प्रामा|ण्यमितिवक्ष्यते, अन्यथाऽमुकनामसूत्र ममुकनाम्ना सातिशयेन निरतिशयेन वा साधुना कृतमित्येतावन्मात्रस्यापि सम्यग् निर्णयानुत्प| तेरितिगाथार्थः ॥ ७२ ॥ अथ लुम्पकेनाज्ञावशात् प्रतिमोत्थापनाय ' से बेमी' त्यादि लुम्पकमतमत्रबीजकल्पं निर्घोष्यमाणमुद्भाव्य दूषितमपि तस्य पारमार्थिकस्वरूपं गाथाषट्रेन विभणिषुः प्रथमगाथामाह Jain Educationa International से बेमि जे अतीआ इच्चाइ अपढमअंगवयणेणं । गुरुपारतंतवयणं वत्तव्वं न उण समईए ॥ ७३ ॥ 'से बेमि जे अतीआ जे य पहुप्पण्णा' इत्यादिकप्रथमाङ्गवचनेन - श्रीआचाराङ्गगतालापकेन गुरुपारतन्त्र्यात् - श्रीसुधर्मखामि नोऽच्छिन्न परम्परागतगुरूपदेशाद्वक्तव्यं सूत्रतोऽर्थतश्च येन प्रकारेण सद्गुरुणोपदिष्टं तेनैव प्रकारेणान्येभ्यो वक्तव्यं, न पुनः खमत्यानिजविकल्पितबुद्ध्या, एतदपेक्षयेत्थं सुन्दरं दृश्यते इति कल्पनापुरस्सरं न वक्तव्यं, तस्य सुन्दरस्याप्यसुन्दरत्वाद्, यदागमः - "अप्पागमो किलिस्सइ जइवि करेह अइदुक्करं तु तवं । सुन्दरबुद्धीइ कथं बहुअंपि न सुन्दरं होई" ति ॥ ४१४ ॥ श्रीउप०, असुन्दरत्वं च ज्ञानादिशून्यत्वाद्, यदागमः- “ विसोहिअंते अणुकाहयंते, जे आयभावेण विआगरेज्जा । अठ्ठाणिणो हुंति बहुगुणाणं, जे णाणसंकाइ मुखं वइज || १ || " ति ( ५५९* ) श्रीसूत्रकृदङ्गे इतिगाथार्थः ॥ ७३ ॥ अथ गुरुपारतन्त्र्यात्कीदृशोऽर्थस्तमाह For Personal and Private Use Only HONGHONGKONGHODIGOINGOG पूजासिद्धि: ॥८३॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy