________________
भीप्रबचनपरीक्षा ॥३०७॥
SHODHONGIDINGHO
SHONO OING
Jain Educationa International
श्रीगुरुभ्यो नमः ॥ ॥ प्रवचनपरीक्षाया बीजकं लिख्यते ॥
६ पणमिअ इत्यादिगाथाषट्केन देवगुरुनमस्कारलक्षणं मंगलाचरणं, एतद्वृत्तौ च प्रसंगतो वक्ष्यमाणकुपाक्षिकाणां सामान्यतः स्वरूपेणैतेषां तीर्थबाह्यतापरिज्ञापनम् । ७ 'वीरजिण 'ति गाथया कुपाक्षिका अभिधेयं, तदुत्पत्तिनिदानादिकं च ।
८ 'खवण' ति गाथया दशानामप्युत्पत्तिक्रमेण नामानि । ९ 'पढमिल्लुआण' ति गाथया कुपाक्षिकाणां तीर्थात्पृथग्भवनं कः कुतो निर्गतः १ ।
१० 'तित्थं चाउ'त्ति गाथया तीर्थलक्षणम् । १२ तित्थयरो इत्यादिगाथाद्विकेन तीर्थकरखरूपम् । १३ 'सुच 'त्ति गाथया श्रुत्वाकेवली धर्मं कथयति नाश्रुत्वा
केवल्यपि, ततस्तीर्थकुदपि श्रवणपरंपश्यैव धर्म्म कथयति इति व्यवस्थापनम् ।
१५ 'गन्भे'त्यादि गाथाद्विकेन श्रुत्वा धर्म्मकथनेऽन्वयव्यतिरेकाभ्यां दृष्टांतदर्शनम् ।
१६ 'सिद्धांतावि' त्ति गाथया सिद्धांताभ्युपगमेऽवश्यं परंपराऽभ्युपगम्यैव ।
१७ एवंविहत्ति गाथया तीर्थकृदपि क्षायिकभावे प्रवर्त्तमानस्तीर्थव्यवस्थापको, नापरोऽपीति ।
१८ 'तित्थं खलु' ति गाथया तीर्थपूजनेन न किमप्यपूजितमित्यभिप्रायेण तीर्थपूजाप्रवृत्तिस्वरूपम् ।
२४ तं चित्र इत्यादिगाथाषट्केन तीर्थकृत्प्रवृर्त्तितमपि तीर्थं
For Personal and Private Use Only
SHONDING ONOIGHL
बीजक
॥३०७॥
www.jainelibrary.org.