________________
श्रीप्रवचनपरीक्षा ११. विश्रामे
॥२९८॥
DAGHE
द्रव्यस्तवस्यैव मुख्यतां दर्शयन्नाह -
ते सावयधम्मे पवरं जिणभवणपमुहनिम्मवणं । असदारंभपवत्ताण तत्तभव्वाण जलसाला ||५७||
तेन- प्रागुक्तयुक्तिदर्शनेन श्रावकधर्मे जिनभवन प्रमुख निर्मापणं - जिन भवनप्रतिमाप्रतिष्ठादिविधापनं प्रवरं श्रेष्ठमुत्तमं सामायिकाद्यपेक्षया महाफलहेतुः, एतच्च राकामते विस्तरतः प्रपंचितं ततो बोध्यं प्रासादादिनिर्मापणं असदारंभाः - गृहस्थत्वनिर्वाह| हेतवो ये व्यापारास्तत्र ये आरंभास्तेऽसदारंभास्तेषु प्रवृत्तानां तप्तभव्यानां सांसारिकव्यापारचित्तोत्पन्नतापानां जलशाला इवपानीयशाला इव, यथा पानीयशाला प्रपा सूर्यातपतप्तानां पिपास्सूनां सुखहेतुस्तथा संसारकृत्यतप्तानां भव्यानां धर्म्मपिपासूनां जिनभवनादिकं पानी यशालाकल्पमिति गाथार्थः || ५७|| अथ पाशविकल्पिता वादाः कीदृशा इत्याह
एवं तिहाव वाया पासेण विगप्पिआ महापावा । जह ते सम्मावाया हवंति तह किंचि दंसेमि ||५८|| एवं प्रागुक्तप्रकारेण पाशेन विकल्पितास्त्रिधाऽपि वादा महापापा बोध्याः, अथ यथा ते सम्यग्वादा भवंति तथा किंचिलेशतो दर्शयामीति गाथार्थः || ५८ | | अथाज्ञाविधिवादयोः पर्यायवाचित्वं नास्तीति दर्शयतिनाणा खलु विहवाओ बिहिवाओ नेव होइ आणत्ति । जइसद्दकज्जकारणपरूवणा होइ विहिवार ॥ ६९ ॥
आज्ञा खलु निश्चये विधिवादो न भवति, विधिवादोऽपि नैवाज्ञा भवति, अथ विधिवादः क इत्याह- 'जइ' ति यदिशब्दकार्यकारणभावप्ररूपणा विधिवादे भवति, वर्त्तमानकालप्रयोगे सप्तमी यात् यातां युस् यास यातं यात यां याव याम ईत ईयातां ईरन् ईथास ईयाथां ईध्वं ईय ईवहि ईमहीत्यादिविभक्तयो भवंति अतीतानागतकालापेक्षया, विधिवादे तु यथासंभवं सस्तनीभवि -
Jain Educationa International
For Personal and Private Use Only
त्रिविधवादसम्यक्ता
॥२९८ ।।
ww.jninelibrary.org.