SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा विश्राम ॥२७५॥ आचारस्योपदेश। HOOLOO मतेषु न संभवत्येवेति प्रसंगतो चोध्यं, तथा दर्शनाचारोऽप्यष्टधैव, 'निस्संकिब निकंखिअ निन्वितिगिच्छा अमूढदिट्ठी अ। उववृह थिरीकरणे वच्छल्ल पभावणे अठ॥१॥"त्ति श्रीदशवैकालिकनियुक्तौ,एतद्व्याख्यान-निःशंकितः-देशसर्वशंकारहितः, तत्र देश- शंका समाने जीवत्वे कथमेको भव्यः? अपरस्त्वभव्य इति शंक्यते, सर्वशंका-सर्वमेवेदं परिकल्पितं भविष्यतीति,तथा निष्कांक्षितःदेशसर्वकांक्षारहितः, देशकांक्षा एकं दर्शनं कांक्षति, सर्वकांक्षा तु सर्वाण्येव, निर्विचिकित्सः-साध्वेव जिनदर्शनं, किन्तु प्रवृत्तस्यापि | सतो ममामात् फलं भविष्यति न वा भविष्यतीति,क्रियायाः कृषिवलादिषभयथोपलब्धेरितिविकल्परहितो निर्विचिकित्स उच्यते, यद्वा निर्जुगुप्सः-साधुजुगुप्सारहितः, अमूढदृष्टि:-बालतपखितपोविद्यातिशयदर्शनैर्न मूढा-स्वरूपाद न चलिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, उपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं, स्थिरीकरणं-धर्माद्विषीदमानानां तत्रैव स्थापन, वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, वात्सल्यं-समानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथनादिभिस्तीर्थख्यापना, अष्ट चेत्यष्टप्रकारो दर्शनाचारः इति दश वृत्ती, दर्शनोपकरणानि तु जिनभवनर्विवादीनि प्रतीतानि, तथा चारित्राचारोऽप्यष्टधा, यथा-"पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिंगुत्तीहिं । एस चरित्तायारो अट्टविहो होइ नायव्यो॥१॥" इति दश नि०, एतबृत्तिर्यथा प्रणिधानं-चेतःस्वास्थ्यं तत्प्रधाना योगाः प्रणिधानयोगास्तैर्युक्तः२ पंचमिः समितिभिः तिसृभिर्गुप्तिभिर्यःप्रणिधानयोगयुक्तः, पंचसु समितिषु तिसृषु गुप्तिसु वा, एष चारित्राचारोऽष्टविधः इति श्री दश० वृत्ती, चारित्रोपकरणान्यपि रजोहरणादीनि साधूपकरणानि, एवं ज्ञानादीनामाराधनं यथोक्ताचारानुपालनेनैव स्यात् , अन्यथा तदाचाराणामपरिपालने ज्ञानादीनां विराधना भणिता,यदागमः-"तिविहे संकिलेसे पं०, तं०-नाण-| OGHORIGHoलाद KOROLOGHOजलर २७५|| Jan Education Intematon For Personal and Private Use Only www.n yong
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy