________________
श्रीप्रवचन
परीक्षा ७ विश्रामे ॥१२॥
श्रुतदेवतादिस्तुतिसिद्धिः
SHORIGHAGHENGDIOONGRO
साहुदेहस्स धारणा ॥१॥ इति (५-१५१*) न च तत् शरीरं मोक्षसंयुक्तम् , एतावता मोक्षवियुक्तमपि मोक्षसाधनं, तथा श्रुतदेवताऽपि, शरीरादिवत्तस्या अपि धर्मसान्निध्यदानसंभवादिति गाथायुग्मार्थः॥१२॥१३॥ अथोक्तयुक्तेः परमार्थमाह__ एवं कारणनिअयं कजं पुण कारणाई णाणाई। तेणप्पमहविगप्पो गोवाणवि हासहेउत्ति ॥१४॥
एवं-प्रागुक्तप्रकारेण कार्य कारणनियतम्-अमुकमेतादृशं कार्यममुकेनैव कारणेन जन्यं, कारणं चैतादृशममुकस्यैव कार्यस्य जनकमित्येवंरूपेणान्योऽन्यव्याप्तिमद्भवति, तानि च कारणानि नाना-विचित्रप्रकाराणि कर्तृकरणादीनि, तानि च कानिचिन्महान्त्यपि स्वानियतानामल्पानामपि कार्याणां कर्तृणि न संभवन्ति, यथा प्रदीपापेक्षया महानपि सूर्यः प्रदीपप्रकाश्यं भूमिगृहं न प्रकाशयति, तथाऽर्हदसाध्यमपि कार्य श्रुतदेवतासाध्यम् , अतस्तदर्थेच्छुना तत्स्तुतिः कर्त्तव्येति न दोषः, यत एवं तेन कारणेनाल्पमहद्विकल्पः-इदं महदिदं चाल्पमित्यादिकल्पना गोपानामपि हास्यहेतुः, यतस्तेऽप्युक्तयुक्त्या निर्णेतुं शक्ता इतिगाथार्थः॥१४॥अथान्यथा प्रकारेण युक्तिमाह
अण्णह अरहंताई पंच पया तत्थ एगमेव पयं । जुत्तं जइ असमत्थो अरिहंतो किन्नु सेसेहि ? ॥१५॥
अन्यथा-महान् पुरुषः स्वापेक्षया तुच्छपुरुषसाध्यं कार्य करोत्येवेति यदि तर्हि अहंदादीनि पञ्च पदानि, प्राकृतत्वात्पुंस्त्वं, | तेष्वेकमेव पदं युक्तं,"नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं" इति पंचानां पदानां जामध्ये नमो अरिहंताणमित्येकमेव पदं युक्तं त्रिस्तुतिकाभिप्रायेण, यद्यहन्नसमर्थः नु इति वितर्के शेषैराचार्यादिभिः किं स्यात?, न
किमपीत्यर्थः, तेन तन्मते नमस्कारोऽपि 'नमो अरिहंताण'मित्येकपदात्मक एव युक्तः, यद्याचार्यादिसाध्यं कार्य तीर्थकरेणासाध्य
॥१२॥
Jain Education Interbon
For Personal and Private Use Only
www.jainelibrary.org