SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ २२ रथने मीयं ॥२६३॥ परमार्थपदानि ज्ञानदर्शनचारित्राणि तेषु तिष्ठति, मिथ्यादर्शनादीनि श्रोतांसि छिन्नानि - अपगतानि तस्य, न क्वचित् ममीकारः, ततः न किञ्चनं विद्यते तस्य । 'विवित्ताणि ॥ ७८०-४८७॥ स्त्रीपशुपण्डकविवर्जितानि लयनानि सेवति, तान्येव विशेष्यन्ते, अकृतमकारितमसंकल्पितानि संयमोपघातविरहितानि पूर्वऋापभिः आचीर्णानि सेवति, तथा परीषहांश्च सहति, शोभनं ज्ञानं सज्ज्ञानं, सज्ज्ञानेन उपगतः महर्षिः, नास्य उत्तरो विद्यत इत्यनुत्तरं, सर्वप्रधान इत्यर्थः तं अनुत्तरं धर्म्मसंचयं चरेत्ता मूलगुणज्ञानधारी भ्राजते सूर्य इव अन्तरिक्षे, स एवंगुणविशिष्टः शुभाशुभकर्म्मविप्रमुक्तः संशुद्धज्ञानदर्शनधरः तीर्त्वा संसारं समुद्रमिव समुद्रपाले अपुणागमं गतिं गतोत्ति, इति परिसमाप्तौ नयाः पूर्ववत् ब्रवीम्याचार्योपदेशात् ॥ एकविंशतितमं अध्ययनं समाप्तं ॥ उक्त एकविंशतितमं इदानीं द्वाविंशतितमं तस्य कोऽभिसम्बन्धः ?, एकविंशतितमे विविक्तचर्याऽभिहिता, द्वाविंशतितमे वृत्ति (धृति) श्चरणं च वर्ण्यते, सा च विविक्तचर्या धृतिमता चरणसहितेन च शक्यते कर्तुम्, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोग द्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्कने निक्षेपे रहणेमिज्जंति- 'रहनेमी निवेक्खयो०' || ४४३ ||४४४।४४५-४८८।। इत्यादि गाथात्रयं गतार्थ, तत्र कोऽसौ हरि (रह) मी, तस्योत्पत्तिः गाधानुसारेणैव च विज्ञेया, सिवत्ति देवी अणोज्जंगी, किमुक्तं भवति:अनुपमाङ्गी, प्रथमाङ्गी इत्यर्थः, रहनेमिस्स चत्तारि वरिसशते गिहत्थत्तं, एगं वरिसं उमत्थे, पंच वर्षशते केवली, उक्तो नामनिष्पन्नो निक्षेपः । इदानीं सूत्रालापकस्यावसरः, अस्मात् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'सोरियपुरंमि नयरे० ' ॥ ७८३-४९१ ॥ इत्यादि, सर्व गाथानुसारेणेव णेयं यावत् 'जहा से पुरिसोत्तमो' त्ति बेमि, नयाः पूर्ववत्, ब्रवीम्याचार्योपदेशात्, द्वाविंशतितममध्ययनं रहनेमिज्जं समाप्तम् ॥ रथनेमि निक्षेपादि ||२६३॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy