________________
नन्दिसूत्रम्)
॥५॥
प्रत्ययस्तस्य भद्रं भवतु । तथा 'भद्रं कल्याणं भवतु, सुरै: - शक्रादिभिरसुरैश्चमरादिभित्र नमस्कृतस्य, तथा 'भद्रं ' कल्याणं भवतु, 'धूतरजसः' धृतं कम्पितं स्फोटितं रजो- बध्यमानं कर्म येन स धृतरजास्तस्य ॥ ३ ॥
सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन सङ्घस्य नगररूपकेण स्तवमाह -
गुणभवणगहण ! सुरगणभरिय ! दंसणविशुद्धरत्यागा ! | संघनगर ! भई ते अखंडचरित्तपागारा ! ॥ ४ ॥
गुणभवण इत्यादि, गुणा- इह उत्तरगुणा गृह्यन्ते. मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात् ते च उत्तरगुणाः पिण्डविशुद्धयादयः, तएव भवनानि, तैः गहनं - गुम्पिलं प्रचुरत्वादुत्तरगुणानां गुणभवनगहनम् सङ्घनगरमभिसम्बध्यते, तस्य आमन्त्रणं. हे गुणभवनगहन !, तथा श्रुतरलभृत-श्रुतानि एव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि तैर्भूतं पूरितं तस्य आमन्त्रणं, हे श्रुतरत्नभृत !, तथा 'दर्शनविशुद्धरध्याक' इह दर्शन-प्रशमसंवेगनिर्वेदानुकम्पा स्तिक्य लिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनममिगृह्यते । तच क्षायिकादिभेदात विधा, तद्यथा - क्षायिक, क्षायोपशमिक औपशमिकं च । दर्शनमेव असारमिध्यात्वादिकचवररहिता विशुद्धा रथ्या यस्य तत् तथा, तस्य आमंत्रणं, हे दर्शनविशुद्धरध्याक !, सङ्घश्रातुर्वर्ण्यः श्रमणादिसङ्घातः, स नगरं इव संघनगरं, तस्य आमन्त्रणं, हे सङ्घनगर !, ' भद्रं कल्याणं 'ते' तव भवतु । अखण्डचारित्रप्राकारं चारित्रं मूलगुणाः अखण्डं - अविराधितं चारित्रं एव प्राकारो यस्य तत् तथा 'मांसादिपु च' इति प्राकृतलक्षणात् चारित्रशब्दस्य आदी ह्रस्वः तस्य आमन्त्रणं, हे अखण्डचारित्रप्राकार !, दीर्घत्वं प्राग ॥ ४ ॥
1
अवचूरीसमलंकृतम्।
॥ ५॥