SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम्) ॥५॥ प्रत्ययस्तस्य भद्रं भवतु । तथा 'भद्रं कल्याणं भवतु, सुरै: - शक्रादिभिरसुरैश्चमरादिभित्र नमस्कृतस्य, तथा 'भद्रं ' कल्याणं भवतु, 'धूतरजसः' धृतं कम्पितं स्फोटितं रजो- बध्यमानं कर्म येन स धृतरजास्तस्य ॥ ३ ॥ सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन सङ्घस्य नगररूपकेण स्तवमाह - गुणभवणगहण ! सुरगणभरिय ! दंसणविशुद्धरत्यागा ! | संघनगर ! भई ते अखंडचरित्तपागारा ! ॥ ४ ॥ गुणभवण इत्यादि, गुणा- इह उत्तरगुणा गृह्यन्ते. मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात् ते च उत्तरगुणाः पिण्डविशुद्धयादयः, तएव भवनानि, तैः गहनं - गुम्पिलं प्रचुरत्वादुत्तरगुणानां गुणभवनगहनम् सङ्घनगरमभिसम्बध्यते, तस्य आमन्त्रणं. हे गुणभवनगहन !, तथा श्रुतरलभृत-श्रुतानि एव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि श्रुतरत्नानि तैर्भूतं पूरितं तस्य आमन्त्रणं, हे श्रुतरत्नभृत !, तथा 'दर्शनविशुद्धरध्याक' इह दर्शन-प्रशमसंवेगनिर्वेदानुकम्पा स्तिक्य लिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनममिगृह्यते । तच क्षायिकादिभेदात विधा, तद्यथा - क्षायिक, क्षायोपशमिक औपशमिकं च । दर्शनमेव असारमिध्यात्वादिकचवररहिता विशुद्धा रथ्या यस्य तत् तथा, तस्य आमंत्रणं, हे दर्शनविशुद्धरध्याक !, सङ्घश्रातुर्वर्ण्यः श्रमणादिसङ्घातः, स नगरं इव संघनगरं, तस्य आमन्त्रणं, हे सङ्घनगर !, ' भद्रं कल्याणं 'ते' तव भवतु । अखण्डचारित्रप्राकारं चारित्रं मूलगुणाः अखण्डं - अविराधितं चारित्रं एव प्राकारो यस्य तत् तथा 'मांसादिपु च' इति प्राकृतलक्षणात् चारित्रशब्दस्य आदी ह्रस्वः तस्य आमन्त्रणं, हे अखण्डचारित्रप्राकार !, दीर्घत्वं प्राग ॥ ४ ॥ 1 अवचूरीसमलंकृतम्। ॥ ५॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy