________________
विशेषा
दृत्तिः ।
॥११८७॥
आह- ननु समुद्धातगतो जन्तुर्वेदनीयादिकर्मणः किं करोति ? इत्याह
'विसमं स करेइ समं समोहओ बंधणेहिं ठिईए य । कम्मदवाई बंधणाई कालो ठिई तेसिं ॥ ३०४६॥
स समवहतः केवलि समुद्धातगतो जीव आयुष्कादधिकत्वेन विषमं वेदनीयादिकर्मत्रयमपवर्तमानः खण्डयित्वा आयुष्कण समं करोति । कैः कृत्वा समं करोति ? इत्याह- बध्यते जीवो यैस्तानि बन्धनानि तैर्बन्धनैः कर्मद्रव्यैः, स्थित्या च काललक्षणया। | अत एवाह- कर्मद्रव्याणि बन्धनानि भण्यन्ते, कालस्तु स्थितिस्तेषां वेदनीयादीनामिति । समीकुर्वेश्चैतद्विशिष्टदलिकनिषेकेणान्तर्मुहूर्तस्थितिकं सर्व करोति ।। ३०४६ ।।
कथम् ? इत्याह--
आउयसमयसमाए गुणसेढीए तदसंखगुणियाए । पुव्वरइयं खवेहिइ जह सेलेसीए पइसमयं ॥ ३०४७ ॥
वेद्यमानस्यायुषो यावन्तः समयाः शेषा अवतिष्ठन्ते तत्समयसमानयाऽन्तर्मुहूर्तप्रमाणयेत्यर्थः, दलिकमाश्रित्यासंख्येयगुणया, प्रथमसमयनिषिक्तदलिकाद् द्वितीयसमयनिषिक्तपसंख्थेयगुणम्, ततोऽपि तृतीयसमयनिषिक्तमसंख्येयगुणम् , एवं यावच्चरमसमयनिषिक्तमसंख्येयगुणमिति एवमसंख्यगुणया स्थानान्तरप्रसिद्धया गुणश्रेण्या तद् वेदनीयादिकर्मत्रयं केवलज्ञानाभोगेनाकलय्य तथा रचयति यथाऽनन्तरोक्तमकारेण पूर्वरचितं तदेतत् शैलेश्यां पतिसमयं क्षपर्यश्चरमसमये सर्वमसौ क्षपयिष्यति । अत्र गुणश्रेणिस्थापना
|EE || आयुषस्तु गुणोणने भवति, किन्तु यथावद्धमेव तद् वेद्यते । अतस्तस्यैवं स्थापना--
B
॥११८७॥
विषम स करोति समं समथहतो पन्धनः स्थित्या च । कर्मद्रव्याणि बन्धनानि कालः स्थितिस्तेषाम् ॥ ३०४६ ॥ २ भायुकसमयसमया गुणश्रेण्या तदसंस्थगुणितया । पूर्वरचितं क्षपयिष्यत्ति यथा शैलेश्या प्रतिसमयम् ॥ ३०॥
Jain Educationa international
For Personal and
Use Only