SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ विशेषा. ABहटतिः। । ॥११८०॥ पंसेइ पिबइ व हियं पाइ भवे वा जियं तओ पावं । तं सव्वमट्ठसामन्नजाइभेयं पणासेइ ॥ ३०२५ ॥ पांशयति मलिनयति जीवमिति पापम् , पिवति वा हितमिति पापम् , पाति वा भव एव रक्षति जीवं, न पुनस्तस्माद् निःसर्तु | ददातीति पापम् । तच्च सर्व कर्मेहाभिप्रेतम् । कथंभूतम् ? इत्याह- 'अट्ठसामन्नजाइभेयं ति' अष्टौ सामान्येन ज्ञानावरणीयादयो | जातिभेदा यस्य तदष्टसामान्यजातिभेदं प्रणाशयत्युच्छेदयतीति सर्वपापप्रणाशन इति ॥ ३०२५ ॥ "मंगलाणं च सन्वेसि' इत्यादेाख्यानमाह नामाइमंगलाणं पढ़मं ति पहाणमहव पंचण्हं । पढम पहाणतरयं व मंगलं पुब्वभणियत्थं ॥ ३०२६ ॥ ... अईनमस्कारलक्षणं मङ्गलं नाम-स्थापनादिमङ्गलानां मध्ये प्रथम प्रधानम्, मोक्षलक्षणप्रधानपुरुषार्थसाधकत्वात् । अथवा, प्रस्तुतानामेव पञ्चानामहत्-सिद्धादिभावमङ्गलानामेतत् प्रथममाद्यम् , आदावेव निर्दिष्टत्वात् । अथवा, प्रधानतरं प्रथमम्, सिद्धाद्यपक्षयाहतां प्रधानतरपरोपकारार्थसाधकत्वादिति । "मंगालयइ भवाओ' इत्यादिना च मङ्गलं पूर्वभणितशब्दार्थमेव ।। इति गाथात्रयार्थः॥३०२६॥ ॥ इत्यर्हन्नमस्कारः समाप्तः ॥ अथ सिद्धनमस्कारं व्याचिख्यासुराह सिद्धो जो निष्फन्नो जेण गुणेण स य चोदसविगप्पो नेओनामाईओ ओयणासिद्धाइओ दव्वे ॥३०२७॥ __इह 'सिद्धः' इति कोऽर्थः ? । उच्यते- 'विध संराद्धो' 'राध साध संसिद्धौ' 'पिधृ शास्त्रे माङ्गल्ये च' सिध्यति स्म सिद्धो यो येन गुणेन निष्पन्नः परिनिष्ठितः, न पुनः साधनीय इत्यर्थः । स च सिद्धः सामान्यतो नामसिद्धादिभेदाच्चतुर्दशविधो ज्ञेयः । तत्र नाम-स्थापनासिद्धी सुगमौ । द्रव्यासद्धस्तु सिद्धो निष्पन्न ओदनः, आदिशब्दात् पाकोत्तीर्णघटादिह्यते, अस्यौदनादेर्निष्पन्नत्वगुणेन परिनिष्ठितत्वात् , अप्रधानत्वेन च द्रव्यत्वात् ॥ इति गाथार्थः ॥ ३०२७ ॥ SS ॥११८०॥ १ पांशयति पियति वा हितं पाति भवे वा जीवं ततः पापम् । तत् सर्वमष्ट सामान्यजातिभेदं प्रणाशयति ॥ १०२५ ॥ २ गाथा ३०२४ । ३ नामादिमङ्गलानां प्रथममिति प्रधानमथवा पञ्चानाम् । प्रथम प्रधानतरकं वा मङ्गलं पूर्वभणितार्थम् ॥ ३०२६ ॥ ४ गाथा २४ । ५ सिदी यो निष्पन्नो बेन गुणेन स च चतुर्दशविकल्पः । ज्ञेयो नामादिक ओदनसिद्धादिको द्रव्ये ॥ ३०२७ ॥ Jan Education International For Personal and Private Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy