SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ RO विशेषा० ॥५८९॥ अत्र प्रतिविधानमाहमेउलं फुल्लं ति जहा संकोय-विबोहमेत्तभिन्नाई। अत्थेणाभिन्नाई कमलं सामण्णओ चेगं ॥ १३७२ ॥ अविवरियं तह सुत्तं विवरीयमत्थो त्ति बोहकालम्मि । किंचिम्मत्तविभिन्ना सामान्नं पवयणं नेयं ॥१३७३॥ यथेह मुकुल, फुल्लमिति च, एतयोः संकोच-विकाशरूपतया भेदः, सामान्यार्थतया चाभेदः कमलमिति । न चैषां पुनः प्रत्येकमेकाथिकानि न युज्यन्ते, किन्तु श्रूयन्त एव प्रत्येकं तदेकार्थिकानि, तद्यथा- आद्यस्य मुकुलं, कुड्मलं, कोरक, जालकं, कलिका, वृन्तमित्यादि; द्वितीयस्य तु फुल्लं, विकोचं, विकाश, विकसितम् , उन्मीलितम् , उन्मिषितं, स्मितम् , उत्रिदं, विजृम्भितं, हसितम् , उबुद्धं, व्याकोशमित्यादि । तृतीयस्य कमलं, पद्मम् , अरविन्द, पङ्कजं, सरोजमित्यादि । तथेहाऽप्यविकृतार्थतो मुकुलकल्पं सूत्रमुच्यते, तदेव बोधकाले व्याख्यानकाले विवृतं सत् समुत्फुल्लकमलकल्पमर्थोऽभिधीयते । विशेषरूपतया च किश्चिन्मात्रमनयोर्भेदः, सामान्यरूपतया त्वेकत्वं ज्ञेयं प्रवचनं श्रुतज्ञानमिति । न चैषां प्रवचन-मूत्रा-ऽर्थानामेकार्थिकानि न युज्यन्ते 'सुयधम्म तित्थ' इत्यादिनाऽनन्तरमेवाभिधास्यमानत्वादिति ॥ १३७२ ॥ १३७३ ॥ अत्र दृष्टान्तान्तरेणापि प्रवचन-सूत्रा-ऽर्थानामेकार्थत्वादिरूपता समर्थयन्नाह सामन्न-विसेसाणं जह वेगा-णेगया ववत्थाए। तदुभयमत्थो य जहा वीसुं बहुपज्जवा ते य ॥ १३७४ ॥ एवं सुत्त-त्थाणं एगा-णेगट्ठया ववत्थाए। पवयणमुभयं च तयं तियं च बहुपजयं वीसुं ॥ १३७५ ॥ 'वा' इति कमलोदाहरणापेक्षयोदाहरणान्तरत्वसूचकः । ततश्च यथा वा सामान्य-विशेषयोर्व्यवस्थया विवक्षयैकता, अनेकता च दृष्टा- एकार्थत्वम् , अनेकार्थत्वं च दृष्टमित्यर्थः; तथाहि- अर्थलक्षण एकस्मिन्नर्थे द्वयोरपि सामान्य-विशेषयोत्तत्वादेकार्थता; सामान्यस्य च विजातीयव्यावृत्ताकारप्रत्ययनिवन्धनत्वात् , विशेषाणां तु सजातीय-विजातीयभिन्नत्वप्रतिभासकारणत्वादनेकार्थता । , मुकुलं फुलमिति यथा संकोच-विबोधमानभिन्नानि । अर्थेनाभिन्नानि कमलं सामान्यतकम् ॥ १३७२ ॥ अविवृतं तथा सूत्रं विवृतमर्थ इति बोधकाले । किञ्चिन्मात्र विभिन्न सामान्य प्रवचनं ज्ञेयम् ॥ १३७३ ॥ २ गाथा १३७८ । ३ सामान्य-विशेषयोर्यथा वैका-ऽनेकता व्यवस्थया । तदुभयमर्थश्च यथा विष्वग् बहुपर्यवास्ते च ॥ १३७४ ॥ एवं सूत्रा-ऽर्थयोरेका-उनेकार्थता व्यवस्थया । प्रवचनमुभयं च तत् त्रिकं च बहुपर्ययं विष्वक् ॥ १३७५॥ ४ क. ग. 'दृश्यते ए'। ५८९॥ नाहGAGANAGPसमस्यामार हाल
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy