________________
विशेषा०
बृहदत्तिः ।
!|३९०॥
goළපුමලමුතුමය. එමතුදමටමලරිඳ ලකුරුඳු
प्रकटा ॥ ८१२ ॥ तदेवं क्षेत्रतस्तद्विषय उक्त: अथ द्रव्यतः, कालतः, भावतश्च तद्विषयमाह'मुणइ मणोदव्वाइं नरलोए सो मणिजमाणाई। काले भूय-भविस्से पलियाऽसेंखिजभागम्मि ॥ ८१३ ॥
दव्बमणोपज्जाए जाणइ पासइ य तग्गएणते । तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं ॥ ८१४ ॥
स मनःपर्यायज्ञानी मुणत्यवगच्छति । कानि ?, इत्याह- मनश्चिन्तापवर्तकानि द्रव्याणि मनोद्रव्याणि । तानि कि मनोयोग्यान्यप्याकाशस्थानि जानाति ?। न, इत्याह-नरलोके तिर्यग्लोके मन्यमानानि संज्ञिभिर्जीवैः कार्य-मनोयोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानीत्यर्थः । तदयं द्रव्यतो विषय उक्तः । अथ कालतो भावतश्च तमाह- 'काले इत्यादि ' भावतस्तावज्जानाति पश्यति च । कान् ?, इत्याह- चिन्तानुगुणान् सर्वपर्यायराश्यनन्तभागरूपानन्तान् रूपादीन् पर्यायान् । कस्य संबन्धिनः ?, इत्याह- मनस्त्वपरिणतानन्तस्कन्धसमूहमयस्य द्रव्यमनसः, न तु भावमनसः, तस्य ज्ञानरूपत्वात् , ज्ञानस्य चामूर्तत्वात, छद्मस्थस्य चामूर्तविषयाऽयोगादिति । तांश्च तद्गतानेव मनोद्रव्यस्थितानेव जानाति, न पुनश्चिन्तनीयबाह्यघटादिवस्तुगतानिति भावः । न च वक्तव्यमेते मनोद्रव्यसंबन्धिन एव न भवन्ति, किमेतद्व्यवच्छेदपरेण तद्गतग्रहणेन ? इति; मनोद्रव्याणि दृष्ट्वा पश्चादनुमानेन ते ज्ञायन्ते, इत्येतावता मनोद्रव्यैरपि सह संबन्धमात्रस्य विद्यमानत्वात् । एतदेवाह- तेन द्रव्यमनसाऽवभासितान् प्रकाशितान् बाह्यांश्चिन्तनीयघटादीननुमानेन जानाति, यत एव तत्परिणतान्येतानि मनोद्रव्याणि, तस्मादेवंविधेनेह चिन्तनीयवस्तुना भाव्यम् , इत्येवं चिन्तनीयवस्तूनि जानातिन साक्षादित्यर्थः । चिन्तको हि मूर्तममूर्तं च वस्तु चिन्तयेत् । न च च्छमस्थोऽमूर्त साक्षात् पश्यति, ततो ज्ञायते- 'अनुमानादेव चिन्तनीयं वस्त्ववगच्छति । कियति कस्मिंश्च काले मनोद्रव्य-पर्यायानसौ जानाति ?, इत्याह- 'काले भूयेत्यादि' भूतेऽतीते, भविष्यति चाऽनागते पल्योपमासंख्ये| यभागरूपे काले ये तेषां मनोदव्याणां भूता व्यतीताः, भविष्यन्तश्चाऽनागताश्चिन्तानुगुणाः पर्यायास्तान् जानातीति ॥८१३॥ ८१४ ॥
अत्र चान्तरे "तं समासओ चउन्विहं पन्नतं, तं जहा- दवओ, खेत्तओ, कालओ, भावओ । दवओ ण उजुमइ अणते अणंतपएसिए खन्धे जाणइ पासई" इत्यादि नन्दिसूत्रेऽभिहितम् । तत्र मनःपर्यायज्ञानं पटुक्षयोपशमप्रभवत्वाद् विशेषमेव गृह्णदुत्पद्यते, 1 जानाति मनोव्याणि नरलोके स मन्यमानानि । काले भूत-भविष्यतो पल्यासंस्थेयभागे ॥ १३ ॥
द्रव्यमनःपर्यायान् जानाति पश्यति च तद्गताननम्तान् । तेनावभासितान् पुनर्जानाति बाह्याननुमानेन ॥ ८१४॥ २ क. ग. 'संखेज्ज' । ३ क. 'ययो'। । तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा-व्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत मजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान् जानाति, पश्यति ।