________________
विशेषा ०
॥३७६ ॥
Jain Education Internatio
मनेन ?, इत्याशङ्कयाह - भवप्रत्ययादिवचसा सिद्धेऽमीषां नियतावधित्वे 'ओहिस्सबाहिरा होंति' इति कालस्य नियमोऽयं विधीयते । इदमुक्तं भवति भवप्रत्ययादिवचनात् सिध्यति नियमेन नारकादीनामवधिमश्वम् परं न ज्ञायते - 'किमाभवक्षयममीषामवधिर्भवति, आहोस्वित् कियन्तमपि कालं भूत्वाऽसौ प्रतिपततीति । ततच 'ओहिस्स बाहिरा होंति' इत्यनेन कालनियमः क्रियते - सर्वदा सर्वकालावधिर्भवति, न त्वन्तरालेऽपि प्रतिपततीति । आह- यद्येवम् तीर्थकृतां सर्वकालावस्थायित्वमवधेर्विरुध्यते, केवलोत्पत्तौ तदभावात् । न तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याऽप्यनष्टत्वात् सुतरां केवलज्ञानेन संपूर्णानन्तधर्मात्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोषः । इत्यलं विस्तरेणेति ॥ ७७० ॥
"सेसा देसेण पासंति' इत्येतद् व्याचिख्यासुराह
सेस च्चिय देसेणं न उ देसेणेव सेसया किंतु । देसेण सव्वओ वि य पेच्छंति नरा तिरिक्खा य ॥७७१ ॥ गतार्थैव ॥ इति गाथापञ्चकार्थः ॥ ७७१ ॥
॥ गतं देशद्वारम् ॥
अथ क्षेत्रद्वारमभिधित्सुराह
"संखेज्जमसंखेज्जो पुरिसमबाहाए खेत्ततो ओही । संबद्धमसंबद्धो लोगमलोगे य संबद्धो ॥ ७७२ ॥
'खेतओ ओही संबद्धमसंबद्धो ति' इह क्षेत्रतोऽवधिरवधिमति जीवे प्रदीपे प्रभापटलमिव संबद्धो लग्नो भवति जीवावन्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं वस्तु प्रकाशयतीत्यर्थः । कश्चित् पुनरतिप्रकृष्टतमोव्याकुलान्तरालवर्तिप्रदेश मुल्लङ्घ्य दूरस्थितभिश्यादिप्रतिफलितप्रदीपप्रभेव जीवेऽसंबद्धो भवति । कया हेतुभूतयाऽसंबद्धः १, इत्याह- मकारस्याऽलाक्षणिकत्वात् 'पुरुषावाधया' इतिपूर्ण: सुख-दुःखानामिति पुरुषः, पुरि शरीरे शयनाद् वा पुरुषो जीवः, अबाधनमवाधान्तरालमित्यर्थः, पुरुषादबाधा पुरुषावाधा तया हेतुभूतयाऽसंबद्ध इति हेत्वर्थे तृतीया ।
स च संबद्धोऽसंवद्धाऽवधिः क्षेत्रतः कियान् भवति १, इत्याह- संख्येयोऽसंख्येयथ- योजनापेक्षया संख्येयानि, असंख्ये
१ गाथा ७६६ । २ शेषा एव देशेन न तु देशेनैव शेषकाः किन्तु । देशेन सर्वतोऽपि च प्रेक्षन्ते नरास्तिर्यञ्चच ॥ ७७१ ॥ ३ संख्येयोऽसंख्येयः पुरुषाऽवाधया क्षेत्रतोऽवधिः । संबद्धा संबद्धो लोकेऽलोके च संवद्धः ॥ ७७२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥३७६॥
www.jainelibrary.org