________________
| इत्याह- 'खेत्त-कालेसु ति' तयोरेव निजक्षेत्र-कालयोस्तिष्ठताम् । इदमुक्तं भवति- अन्यत्र नर-तिर्यसंबन्धिन्याधारभूते क्षेत्रे स्वायु
करूपे च काले गतानाममीषामपि भवति द्रव्यादिष्ववधेः समयोऽवस्थानं, केवलं ते तत्र गताः सुरनारका न भवन्त्येव, किन्तु नर
तिर्यञ्च एवेति; अत उक्तम्- तस्मिन्नेव स्वाधारभूते क्षेत्रे स्वायुष्कलक्षणे च काले तिष्ठतामिति । तत्र हि तिष्ठता सुर-नारकाणामवधेः ॥३५९॥ प्रतिपाताभावात् समयमात्रावस्थानासंभव एवेति भावः ।। ७२६ ॥
अत्र मूरिराह
'चरिमसमयम्मि सम्म पडिवजंतस्स जंचिय विभंगं । तं होइ ओहिनाणं मयस्स बीयम्मि तं पडइ॥७२७॥ व्याख्याताथैव ॥ इति गाथानवकार्थः ॥ ७२७॥
॥उक्तमवस्थितद्वारम् ॥ अथ चलद्वारमभिधित्सुराह
'वुड्ढी वा हाणी वा चउबिहा होइ खेत्त-कालाणं । दब्वेसु होइ दुविहा छव्विह पुण पजवे होइ ॥७२८॥
चलद्वारमिदमुच्यते । चलवावधिव्यादिविषयमङ्गीकृत्य वर्धमानको हीयमानको वा भवति । वृद्धि-हानी च प्रत्येकं षड्विधे सामान्येन आगमे भोक्ते, तद्यथा- अनन्तभागवृद्धिः, असंख्यातभागवृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिः, अनन्तभागहानिः, असंख्यातभागहानिः, संख्यातभागहानिः, संख्यातगुणहानिः, असंख्यातगुणहानिः, अनन्तगुणहानिः । एतयोश्च षड्विधद्धि-हान्योर्मध्यादवधिविषयभूतक्षेत्र-कालयोराधन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिर्हानिर्वा भवति । अनन्तभाग
वृद्धिः, अनन्तगुणवृद्धिा, तथाऽनन्तभागहानिः, अनन्तगुणहानिर्वा क्षेत्र-कालयोन संभवति, अवधिविषयभूतक्षेत्रस्याऽऽनन्त्याभावात् , F कालस्याऽप्यवधिविषयभूतस्याऽनन्तत्वाप्रतिपादनात् । तदिदमत्र हृदयम्- यावत् क्षेत्रं प्रथममवधिज्ञानिना दृष्टम् , ततः प्रतिसमयमसं| ख्यातभागवृद्धं कश्चित् पश्यति, कोऽपि संख्यातभागवृद्धम् , अन्यस्तु संख्यातगुणवृद्धम् , अपरस्त्वसंख्यातगुणवृद्धं क्षेत्रं पश्यति । एवं हीयमानमपि वाच्यम् । एवं क्षेत्रे वृद्धिहानिर्वा चतुर्धा भवति । एवं कालेऽपि वृद्धि-हान्योश्चातुर्वंध्यं भावनीयमिति । द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिानि भवति । इदमुक्तं भवति- अवधिज्ञानिना यावन्ति द्रव्याण्युपलब्धानि प्रथम,
चरमसमये सम्यक् (वं ) प्रतिपद्यमानस्य तदेव विभङ्गम् । तद् भवत्यवाधिज्ञानं गतस्य द्वितीये तत् पतति ॥ २० ॥२ प.छ. 'म्मि से प'। ३ वृद्धि हानिर्वा चतुर्विधा भवति क्षेत्र-कालयोः । इव्येषु भवति द्विविधा पड्विधा पुनः पर्यवे भवति ॥ ०२८ ॥
॥३५९॥
R
Jan Education Intematon
For Dev
enty