________________
दुर्व्यवहारिणो निग्रहप्र
काराः
एवं णिहोडणाए, कयाइ णाएण तेण गीयत्था । सुत्तं उच्चारेउं, एअस्स दिसं अवहरंति ॥ १०॥ PI एवं'ति । 'एवम्' अमुना प्रकारेण 'तेन' धूलीजङ्घन 'निहोडणायां' निवारणायां कृतायां न्यायेन गीतार्थाः 'सूत्रम्'
उक्तसूत्रसप्तकात्मकमुच्चार्य 'एतस्य' दुर्व्यवहारिणः 'दिशम्' आचार्यत्वादिकां 'अपहरन्ति' उद्दालयन्ति ॥ १० ॥ जइ हुज अप्पदोसो, आउट्टो वि य तया पुणो दिति । बहुदोसेऽणाउट्टे, जावज्जीवंण तं दिति ॥ १॥ | 'जइ हुज'त्ति । यदि भवेत् 'अल्पदोषः' अल्पापराधः 'आवृत्तः' सङ्घक्षामणपूर्व पुनरेवं न करिष्यामीति प्रतिज्ञाकारी च तदा तस्यापहृतां दिशं पुनर्ददति । अनावृत्ते आवृत्ते वा बहुदोषे पुरुषे यावज्जीवं न 'ताम्' अपहृतामाचार्यत्वादिका दिशं ददति ॥ १॥ ननु यदि तस्याचार्यत्वादिका दिग् न नष्टा तदा किं निग्रहवचनैः ? यदि च नष्टा तदा कथमनुग्रहहै वचनैः सङ्घटेताऽपि ? इत्यत आहजह धणनिटं सत्तं, दाणे णस्सइ पडिग्गहे होइ । इत्थ वि णासुप्पाया, तह णेया सुत्तणीईए ॥२॥
'जह'त्ति । यथा धननिष्ठं स्वत्वं यथेष्टनियोगादिना पुण्यादिप्रयोजकपर्यायरूपदाने नश्यति, प्रतिग्रहे च भवति' उत्पद्यते, तथा 'अत्रापि प्रकृतायां दिश्यपि सूत्रनीत्या सुव्यवहार(रि)गीतार्थनिग्रहानुग्रहवचनाभ्यां नाशोत्पादौ ज्ञेयौ।। कालाद्यनाश्यायां तस्यां निग्रहस्य नाशकत्वे निग्रहजनितनाशोत्तरदिगुत्पादादौ चानुग्रहस्य हेतुत्वे दोषाभावाद्वस्तुतोऽननुगतानां कारणानामननुगतकार्यजननेऽप्येकशक्तिवादिनामस्माकं न काचित् क्षतिरित्यधिकं लतायाम् ॥२॥ एतदेवाह
SEARNAGAR
in
Minna
For Private & Personal Use Only