________________
प्रस्तावना।
भी वर्धमान देशना ।
षष्ठोल्लासे कुण्डकोलिकचरिते शीलदेशनायां शीलोपरि कुजध्वजदृष्टान्तः कथितः । तत्राधुनिकपाश्चिमात्यविज्ञानेभ्योऽतिविस्मयकारिविज्ञानं पुरा कीगासीदिति सविस्तरं प्रदर्शितं । शीलादिधर्ममाहात्म्याच तद्विज्ञानं विघ्नादिभयव्याप्तमपि परिणामसुखावहं कीहग्भवतीत्यादि सरसं दर्शितम् । किं च ज्ञाततत्त्वेन कुण्डकोलिकश्राद्धेन सुयुक्त्या स्वबुध्ध्या गोशालकस्य नियतिवादः देवप्रतिपादितः परास्त इत्यपि सुविलोकनीयमस्ति ।।
सप्तमोझासे सद्दालपुत्रश्राद्धचरिते बहु ज्ञातव्यमस्ति, यतः स सद्दालपुत्र: कुंभकारः गोशालकमको महावीरमतं कथमप्यमन्यमानोऽपि सुयुक्त्या भगवता सद्धर्मे स्थिरीकृतः । पश्चात्तस्यैवाभ्यर्थनया देशनायां भगवता तपोविधानविषये दामनकदृष्टान्तः कथितः । तत्र तपःप्रभावात् स दामनको मरणान्तकष्टानि तीवा कथं सुखभागू जातः १ इति वाचनीयमस्ति । श्रीवीरकथितश्राद्धधर्मप्रतिपन्नं सालपुत्रं जनाननाच्छुत्वाऽऽगतेन गोशालकेन सह तस्य बहूनि प्रश्नोत्तराणि धर्मविषयकाणि जातानि वाचनीयानि, तथापि स धर्मान्न च्युतः गोशालकश्च विलक्षो जात इत्यादि ।
अष्टमोलाने महाशतकचरितेऽपि बहु ज्ञातव्यमस्ति | स महाशतकत्रयोदशभार्यापतिरासीत् । तासु च रेवतीनाम्नी मुख्या भार्या:तीव दुष्टाऽऽसीत् । स च वर्धमानस्वामिमुखादेशनायामसंमतकथानकं विद्वजनमनश्चमत्कारकरं भावनाधर्ममयं श्रुत्वा श्राद्धो जातः । * स च समये श्राद्धप्रतिमा वहन् द्वादश सपत्नी|गवान्छया विनाशयित्र्या रेवत्याऽनुकूलैरुपसर्गरुपसर्गितोऽपि शुभध्यानान चलितः,
या ॥२॥
JainEducation.in
For Private Personal Use Only
inelibrary.org