SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥७५॥ 2 तद्यभिचारोऽनुमीयते । दृश्यन्ते हि वेदोक्तमन्त्रसंस्कारविशिष्टेभ्योऽपि विवाहाऽऽदिभ्योऽनन्तरं वैधव्याऽल्पायु कतादारिद्याऽऽझुपद्रवविधुराः परःशताः; अपरे च मन्त्रसंस्कारं विना कृतेभ्योऽपि तेभ्योऽनन्तरं तद्विपरी| ताः । अथ तत्र क्रियावैगुण्यं विसंवादहेतुः, इति चेत् । न संशयाऽनिवृत्तेः । किं तत्र क्रियावैगुण्यात् फले वि-18 संवादः, किंवा मन्त्राणामसामर्थ्याद् ?, इति न निश्चयः । तेषां फलेनाविनाभावाऽसिद्धेः। __अथ यथा युष्मन्मते “आरोग्ग बोहिलाभं समाहिवरमुत्तमं दितु" इत्यादीनां वाक्यानां लोकान्तर एव | 8 फलमिष्यते, एवमस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किं न प्रतिपद्यते ?; अतश्च विवाहाऽऽदौ नोपलम्भावकाशः, इति चेत् । अहो ! वचनवैचित्री; यथा वर्तमानजन्मनि विवाहाऽऽदिषु प्रयुक्तैर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलम् ,एवं द्वितीयादिजन्मान्तरेष्वपि विवाहाऽऽदीनामेव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारे-18 ऽनन्तभवानुसन्धानं प्रसज्यते, एवं च न कदाचन संसारस्य परिसमाप्तिः । तथा च न कस्यचिदपवर्गप्राप्तिः; इति प्राप्तं भवदभिमतवेदस्य पर्यवसितसंसारवल्लरीमूलकन्दत्वम् । आरोग्याऽऽदिप्रार्थना तु असत्याऽमृषा| भाषापरिणामविशुद्धिकारणत्वाद् न दोषाय, तत्र हि-भावाऽऽरोग्याऽऽदिकमेव विवक्षितम् ; तच्च चातुर्गतिकसंसारलक्षणभावरोगपरिक्षयस्वरूपत्वाद्-उत्तमफलम् ; तद्विषया च प्रार्थना कथमिव विवेकिनामनादरणीया।। नच तज्जन्यपरिणामविशुद्धस्तत्फलं न प्राप्यते; सर्ववादिनां भावशुद्धेरपवर्गफलसम्पादनेऽविप्रतिपत्तेरिति । ॥७५॥ १ व्यवहारभाषा। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy