SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ स्याद् |२०५॥ ००००००००००००००००००००००००००००००००००००००० पलम्भात् । तथा च वक्तृवचनयोरेक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः "उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः" ॥१॥ अन्ये त्वेवं व्याचक्षते- यथा अन्योऽन्यपक्षपतिपक्षभावात् परे प्रवादा मत्सरिणस्तथा तब समयः || सर्वनयान मध्यस्थतयाऽङ्गीकुर्वाणो न मत्सरी । यतः कथंभृतः?, पक्षपाती- पक्षमेकपक्षाभिनिवेशम् , पातयति | | तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम् , पूर्वस्मिंश्च पक्षपातीति विशेषः । अत्र च क्लिष्टालिटव्याख्यानविवेको विवेकिभिः स्वयं कार्यः । इति काव्यार्थः ॥ इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादाख्यं गुणमभिष्टुत्य समग्रवचनातिशयव्याणन वस्याऽसामथ्ये दृष्टान्तपूर्वकमुपदशेयन् ओद्धत्यपरिहाराय भङ्ग्यन्तरतिरोहितं स्वाभिधानं च प्रकाशयन् निगमनमाह - वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेद् महनीयमुख्य !। लङ्घम जङ्घालतया समुद्रं वहेम चन्द्रातिपानतृष्णाम् ॥ ३१ ॥ विभव एव वैभवं प्रज्ञादित्वात् स्वार्थेऽण् , विभोर्भावः कर्म चेति वा वैभवम् । वाचा वैभवं वाग्वै ०००००००००००००००००००००००००००००००००००6000 - २०५॥ - - - - Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy