SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्याद्० 116 11 परेभ्यः प्ररूपयति तत्किमर्थं तन्नोपात्तम् ?, इति चेत् । उच्यते । विज्ञानशब्देन तस्यापि संग्रहाददोषः, ज्ञान मात्राया उभयत्रापि समानत्वात् । य एव हि अभ्यन्तरीकृतसमताऽऽख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्तेऽर्थाः, त एव ह्यभ्यन्तरीकृतविषमताधर्माः समताधर्मविशिष्टा दर्शनेन गम्यन्ते जीवस्वाभाव्यात् । सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते; तथा प्रधानविशेषमुपसर्जनीकृत सामान्यं च ज्ञानमिति । तथा यत एव जिनम्, अत एवातीतदोषम् ; रागादिजेतृत्वाद्धि जिनः; नचाजिनस्यातीतदोषता । तथा यत एवाप्तमुख्यम्, अत एवावाध्यसिद्धान्तम् ; आप्तो हि मत्ययित उच्यते; तत आप्तेषु मुख्यं श्रेष्ठमाप्तमुख्यम् ; आप्तमुख्यत्वं च प्रभोरविसंवादिवचनतया विश्वविश्वासभूमित्वात् । अत एवावाध्यसिद्धान्तम् । न हि यथावज्ज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयैर्वाधितुं शक्यते । यत एव स्वयम्भुवम्, अत एवामर्त्यपूज्यम् । पूज्यते हि देवदेवो जगत्त्रयविलक्षणलक्षणेन स्वयंसम्बुद्धत्वगुणेन सौधर्मेन्द्रादिभिरयत्यैरिति । अत्र च श्रीवर्धमानमिति विशेषणतया यद् व्याख्यातं तदयोगव्यवच्छेदाभिधानमथमद्वात्रिंशिका प्रथमकाव्यतृतीयपादवर्तमानं 'श्रीवर्धमानाभिधमाऽऽत्मरूपम्' इति विशेष्यमनुवर्तमानं बुद्धौ संप्रधार्य विज्ञेयम् । तत्र हि आत्मरूपमिति विशेtयपदम् प्रकृष्ट आत्मा आत्मरूपस्तं परमात्मानमिति यावत् । आवृत्या वा विशेषणमपि विशेष्यतया व्याख्येयमिति प्रथमवृत्तार्थः ॥ १ ॥ १ गौणीकृतसामान्याख्यधर्मा विशेषधर्मयुक्ताः । Jain Education International For Private & Personal Use Only 116 ||| www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy