________________
पुण्डरीक
॥ २०९॥
४
१२.
1
ततश्च - साहित्येषु स सौहित्यं वैचक्षण्यं च लक्षणे । गेयेऽमेयमर्ति प्राप लोस्येनास्वतां क्रमात् । इतश्च - शृङ्गाररसभृङ्गारं कलालोकोकिलं वनम् । सुतं नृपः स तं प्रेक्ष्य ज्ञानानन्दमधाऽवदत् ॥ ९० ॥ भोः कलाचार्य ! पुत्रोऽयं सकलासु कलास्वपि । त्वया विशारदश्चक्रेऽधुना युद्धे कुरु द्रुतम् ॥ ५१ ॥ विनयो हि विनेयानां त्रपा स्त्रीणां शमो मुनेः । युद्धं क्षत्रियपुत्राणां विभूषणमसंभृतम् ॥५२॥ उक्त्वेति नृपतिर्ज्ञाना-नन्दाख्यं तं कलागुरुम् । वस्त्राऽलंकृतिदानेन संमान्याऽय विसृष्टवान् ॥ २३ ॥ ज्ञानानन्दकलाचार्यो नृपोक्तं मनसा स्मरन् । छात्रं भुवनभानुं तं शस्त्रश्रममचीकरत् ॥ ५४॥ शब्दवेधी सूक्ष्मवेधी शीघ्रसंवानवानसी । दृढमहारी धैर्यायो धनुर्युडे क्रमादभूत् ॥२२॥ ( खङ्गादियुद्वानि – ) खड्गयुद्ध - गदायुद्ध - मल्लयुद्धादिकान्यसौ । ज्ञात्वा भुवनभानुस्तं गुरुं नत्वा व्यजिज्ञपन् ॥ ( राघवेधाभ्यासः - ) भवत्प्रसादादासादि सादियुद्धादिकक्रमः । राघवेधभमज्ञाने संभ्रनो मे गुरो ! महान् ॥ ज्ञानानन्दस्ततः क्षत्र-पुत्रपश्चशतीवृतः । ययौ पुरबहिर्भूमिं युक्तो भुवनभानुना ॥ २८ ॥ क्षत्रपुत्रान् ततः सर्वान् श्रेण्या संस्थाप्य सोऽब्रवीत् । हो ! राजसुताः सर्वे शृग्वन्तु वचनं मम ॥६९ । अग्रतः - चारों चूततरी वामपक्षशाखामवस्थितः । चाषपक्षी दृशोर्लक्षी-क्रियतां भूपसुनवः ! ॥३०॥ तथा, पक्षिणोऽस्यैव भो ! दक्षा ! दक्षिणेतरचक्षुबि । समाश्रित्यैकतानत्वं लक्षं बध्नीत निश्चलम् ॥ ६१ ॥ इत्याकर्ण्य वचश्चारु ज्ञानानन्दकलागुरोः । प्रमाणं युष्मदादेश एव ते क्षत्रिया जगुः ॥६२॥ ज्ञानानन्दः पुनः प्रोचे भो ! भोः ! क्षत्रियसूनवः ! चूतं शाखां खगं चापं चक्षुरस्य च पश्यत ॥ ६३ ॥
१ लास्यं नान्यशास्त्रम् । २ आन्नस्यरहितताम् । ३ भृङ्गारः कलशः ४ आसादि प्राप्तः । ५ सादी अश्वारोही ।
Jain Education International
For Private & Personal Use Only
चरित्रम्सर्गः ६
५२०९ ।।
www.jainelibrary.org