________________
व्रतकथाः
आव० हारि० टीप्पणं
॥११६॥
PARACHARYA
स्वगृहे भोजनादिकं च न ददातीति । आयोगस्थानानि-तस्कराणां क्षात्रखननादिप्रदेशरूपाणि लाभस्थानानीत्यर्थः, 'दन्तनखोत्पलपत्रिकादिभिरित्यादि (८२५-१६), दन्तै खैश्च योषित्शरीरावयवेषु यान्युत्पलपत्रिकारचनादीनि तैर्मदनमुत्तेजयति, तथा अवाजिनो वाजिरूपतापादनं वाजीकरणं तच्च करोति, वाजिनो हि किल शुक्रधातुप्राचुर्य भवतीति औषधप्रयोगादिना सोऽप्यात्मनस्तद्रूपतामापादयतीत्येके, अन्ये वाहुः-औषधादिप्रयोगाच्चिरेण शुक्रधातोः पातनं वाजीकरणमिति । 'मुहेण वा अरिं आणेइ जहा कुमारामच्चेणे'त्यादि ( ८३१-१), कथानिका संक्षिप्यानवगम्यमा-2 नार्थतया चेह लिखिता, चूणौ तु किश्चित्सविस्तरा सुगमा च दृश्यते, तद्यथा-कस्यचिद्राज्ञः क्वचिद्देशान्तरे त्वरितगन्त्रा
पुरुषेण प्रयोजनमभूदिति कोऽत्र शीघ्र इति सचिवं पप्रच्छ, सोऽपि कञ्चन पुरुषं तथाविधं निवेदितवाँस्तस्य चानिच्छतोऽपि Aराज्ञा वृत्तिः कृता, हठाच्च तस्मिन्प्रयोजने प्रेषितोऽयं चामात्ये प्रद्वेषमापन्नोऽमात्यं जघानेत्यमात्येनासौ स्वमुखेन शत्रुतां
नीत इति, वृत्त्यक्षराण्यप्युक्तन्यायेन गमनीयानीति । पौषधाधिकारे 'इकसिं वा दो च'त्ति (८३६-४), एकभक्त द्विभक्तं वा करोतीत्यर्थः 'दन्भवत्थं वा सुद्धवत्थं वत्ति (८३६-१६), दर्भवस्त्रादि शुद्धवस्त्रं वाऽऽस्तरतीत्यर्थः। 'पज्जोसवणागहणं एत्थ विगिट्ठ कीरइ सवजहन्नो अट्ठमन्ति ( ८४१-१५) इदमुक्तं भवति-चातुर्मासिकपाक्षिकापेक्षया || पर्युषणायामष्टमलक्षणं गरिष्ठं तपः क्रियत इतिकृत्वा "होही पज्जोसवणा"इत्यादिगाथायां पर्युषणाग्रहणमकारि, अन्यथा :
हि यथा पर्युषणायामष्टमं तथा चातुर्मासिके षष्ठं पाक्षिके चतुर्थ विधीयत एव, तथा तीर्थङ्करस्नात्रेऽनुयाने च रथयात्रारूपे * यथाशक्त्या तपः क्रियत एवेति, इदं च पर्युषणायामष्टमं क्रियते तद्विकृष्टतपसां मध्ये सर्बजघन्यमितिज्ञेयं, अत एवोक्तं
॥११६॥
JainEducation
For Private & Personal use only
M
E
nwr.jainelibrary.org