________________
542564545+C+C45
दशभिर्गुण्यन्ते नव च प्रक्षिप्यन्ते यावच्चतुर्थवारायामागतं ९९९९९, एकोनपञ्चाशद्भङ्गपक्षे त्ववधावेकोनपञ्चाशद् वारं २] पश्चाशता गुण्यन्ते एकोनपञ्चाशक्षिप्यते यावच्चतुर्थवेलायामागतं ३१२४९९९९९, एवं तावत् षड्भङ्गकादिषु चतुर्ध्वपि पदेषु पञ्चाणुव्रतान्याश्रित्यैषा सर्वभङ्गकसङ्ख्या, यदि पुनर्वादशानामपि व्रतानां कश्चिद् भङ्गकसंख्यां जिज्ञासेत् तदा यथैव षड्भगराशिश्चतस्रो वाराः पूर्व गुणितस्तथैव सप्तकगुणितषट्प्रक्षेपद्वारेणापरा अपि सप्तवारा गुणनीया यावदेकादश्यां वेलायामागतं १३८४१२८७२०० एवमेकैकव्रतं प्रति षड्भङ्गपक्षे सर्वा द्वादशव्रतभङ्गसक्यैषा, एकविंशतिभङ्गपक्षेऽपि द्वाविंशतिगुणनैकविंशतिप्रक्षेपक्रमेण पूर्ववदपरा अपि सप्तवारा गणना विधेया यावदेकादशवेलायां सर्वद्वादशवतभङ्गसंख्यायामागतं ( १२८५५००२६३१०४९२१५ ) (प्रत्यन्तरे–१२८५५०००३६३१०४९२१५) नवभङ्गपक्षेऽपि दशगुणननवप्रक्षेपक्रमेण पूर्ववदन्या अपि सप्तवारा गुणनीयं यावदेकादश्यां वारायां सर्वव्रतभङ्गकसंख्यायामागतं ९९९९९९९९९९९९, एकोनपश्चाशद्भङ्गपक्षे पश्चाशगणनेकोनपञ्चाशत्प्रक्षेपक्रमेणापरसप्तवारागुणिते सर्वव्रतभङ्गसंख्यायामागतं २४४१४०६२४९९९९९९९९९९९९ इति गाथार्थः। नन्वनया गाथया विवक्षितव्रतभङ्गकसबसंख्यैवागच्छति, भेदतस्त्वेकैकद्विकसंयोगादिभङ्गकरचनाक्रमेण या देवकुलिकारचना सा कथमानीयत इति, सत्यं, अत्राप्युक्तं वृद्धैः, तद्यथा-एगाई वयतुल्ला उवरुवरिं पक्खिवे । चरमवज्जा । छच्छक्कगगुणिआणं गुणकारा होति नायबा ॥१॥ व्याख्या-एकादयः आदिशब्दाद् द्वित्रिचतुःपञ्चादिपरिग्रहः ते एकादयो यावन्ति व्रतानि विवक्ष्यन्ते तत्तुल्या उपर्युपरि व्यवस्थाप्यन्ते, तत्र किल पञ्चाणुव्रतानि विवक्ष्यन्तेऽत
आ० २०
JainEducatior
For Private
Personal Use Only
KIww.jainelibrary.org