SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥११०॥ Jain Educatio एवमतिचारशुद्धिं कृत्वा करोति नमस्कारमृषभादीनामितिगाथाचतुष्टयार्थः । ' वक्ष्यमाणद्रव्यवन्दन परिहाराये 'ति | ( ७६२ - १४) जावंत केवि साहू रयहरणगोच्छेत्यत्र वक्ष्यमाणा ये साधवस्तेषां भावशून्यं द्रव्यवन्दनमिदं मा भूदिति विशेष्यते - मायामृषावर्जित इतिभावार्थः ॥ प्रतिक्रमणाध्ययनं समाप्तमिति ॥ साम्प्रतं कायोत्सर्गनियुक्तिरारभ्यते - सा च प्राय, सर्वैव सुगमा, नवरं निकायकायव्याख्यायां 'एवं जीवनिकायः सामान्येन निकायकायो भण्यते' इत्यादि (७६८-१४) एतदुक्तं भवति - एकाद्यसंख्येयान्तः पृथ्वीस्कन्धः कायत्वेन विवक्षितस्तदधिकोद्ध रितसजातीयपृथ्वीकायिकप्रक्षेपे सोऽपि निकाय इत्युच्यते, एवमेकाद्यसंख्येयान्ताप्कायस्कन्धः कायः तदधिकोद्धरिताकायिकजीवप्रक्षेपे स एव निकायः, एवं तेजोवायुवनस्पतिष्वपि वाच्यं, एवं च यद्यपि सर्वेष्वपि पृथिव्यादिभेदेषु प्रत्येकं निकायता लभ्यते तथापि सामान्येनेह सर्वोऽपि जीवसङ्घातो निकायत्वेन विवक्ष्यते, अन्यथा अनन्तरवक्ष्यमाणव्याख्यान्तरभेदाभावप्रसङ्गात्, ततश्च निकाय एव कायो निकायकाय इति कर्मधारयोऽत्र विधेयो, द्वितीयव्याख्याने तु षड्विधोऽपि पृथ्व्यादिभेदो निकायतया प्रत्येकं विवक्ष्यते, ततश्च निकायानां कायो निकायकाय इति पष्ठीतत्पुरुष इति व्याख्याद्वयस्य भेद इति । 'अनेन च धर्माधर्माकाशानामैकैकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धा समयस्य चैकत्वादस्तिकायत्वापत्तिरिति एतत्परिहृतमवगन्तव्य'| मित्यादि ( ७६८ - १६ ), अयमत्र भावार्थ:- अत्र यदि कश्चिद्र्यात् ननु कायशब्दस्य निचयवाचित्वाद्धम्र्म्माधर्म्माकाशानां त्वेकैकद्रव्यरूपत्वादस्तिकायत्वानुपपत्तिरिति पञ्चास्तिकाया इत्ययुक्तं, अथैकरूपस्याप्यस्तिकायत्वमभ्युपगम्यते तर्ह्यद्धासमयस्याप्येकरूपस्य तत्स्याद्, एवं च सति षडस्तिकायाः प्राप्नुवन्ति, एतद् गाथायां बहुप्रदेशग्रहणेनैवकारार्थेन तुशब्देन च परिहृतं, ational For Private & Personal Use Only कायोत्सर्गे निकायनि. ॥११०॥ Www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy