________________
० १९
धम्मस्स आसायणाएं' इत्यत्र सूत्रे श्रुतधर्माशातनाद्वारेण श्रुताशातना प्रतिपादिता तथा 'सुअस्स आसायणाए' इत्यत्रापि सूत्रेऽसौ प्रोक्ता तथा प्रस्तुतैरपि चतुर्द्दशभिः सूत्रैरसावेव श्रुताशातना प्रतिपाद्यते तथापि न पौनरुक्त्यमाशङ्कनीयं, यतः पूर्वसूत्रद्वयोक्ताशातना सामान्यश्रुतविषया द्रष्टव्या 'जं वाइद्ध' मित्यादिप्रस्तुतचतुर्द्दशसूत्रोक्ता तु श्रुतक्रियाकालगोचरा श्रुताध्ययनप्रवृत्तस्येत्यर्थः, पूर्वसूत्रद्वयस्य तु परस्परं पौनरुक्त्यं 'सुयस्स आसायणाए' इत्यत्र वृत्तिकृतैव परिहृतमिति सर्व सुस्थमिति, ननु तथाप्येतानि चतुर्द्दश पदानि तदा पूर्यन्ते यदा सुष्ठु दत्तं दुष्ठु प्रतीच्छितमिति पदद्वयं पृथगाशातनास्वरू| पतया गण्यते, न चैतद्युज्यते, सुष्ठु दत्तस्य तद्रूपताऽयोगात्, न हि शोभनविधिना दत्ते काचिदाशातना संभवति, सत्यं, स्यादेतद् यदि शोभनत्ववाचकोऽत्र सुष्ठुशब्दः स्यात् तच्च नास्ति, अतिरेकवाचित्वेनेहास्य विवक्षितत्वाद्, एतदत्र हृदयं - सुष्ठु - अति| रेकेण विवक्षिताल्पश्रुतयोग्यस्य पात्रस्याऽऽधिक्येन यत् श्रुतं दत्तं तस्य मिथ्यादुष्कृतमिति विवक्षितत्वान्न किञ्चिदसङ्ग| तमिति ॥ आशातनाः समाप्ताः ॥ साम्प्रतमस्वाध्यायिक निर्युक्तिरारभ्यते तत्र यदुक्तं- 'सधेसिं जाव पाडिवओ'त्ति तत्र | परः प्राह- नन्वाषाढीप्रभृत्युत्सवाः पौर्णमासीपर्यन्ता एव प्रायो दृश्यन्ते तत्कथं प्रतिपदं यावद्वर्ण्यन्ते इत्याशङ्क्याह- 'छलणावसेस एणं गाहा ( ७३७ -२ ), इहापाढीप्रभृत्युत्सवेषु सर्वत्र पर्यटत् क्रीडाप्रियव्यन्तरादिभ्यस्तावच्छलना संभवति तदव - शेषश्चातीव प्रत्यासत्तेः प्रतिपद्यपि संभाव्यते अत छलनावशेषेण हेतुना प्रतिपत्स्वपि उत्सवा अनुसर्पन्ति, किं च - महः - उत्सवस्तयाकुलत्वेन पौर्णमास्यां ये गृहस्थैर्भोजनादिना न सन्मानिता भवन्ति तेषां पौर्णमास्यां असारितानां - असन्मानितानां सन्मानः प्रतिपत्स्वपि सम्भवति तेन तत्राप्युत्सवा अनुसर्पन्तीति, प्रक्षेपगाथा चेयं लक्ष्यते सोपयोगा चेति व्याख्या
ational
For Private & Personal Use Only
www.jainelibrary.org