________________
आव०
पार्श्वस्थादिभेदाः
हारिक
टीप्पणं
गिद्धस्तन्निश्रया विवशति, संखण्ड्यन्ताचसह मातापित्रा इति ग
भ्रातृमातुलादीनामुपाश्रयस्याप्रभूणामपि सम्बन्धी पिण्डो वर्जनीयो, भद्रकमान्तादिदोषादित्यलं विस्तरेण, तदर्थना तु प्रकल्पतृतीयोद्देशकोऽन्वेष्यः, स्वपरग्रामात्साधुनिमित्तं य आनीयते सोऽभ्याहृतपिण्डः, प्रतिदिनं तवैतावन्मानं दास्यामि मद्गृहे नित्यमागन्तव्यमिति निमन्त्रितस्य नित्यं गृह्णतो नित्यपिण्डः, तत्क्षणोत्तीर्णोदनस्थाल्या अव्यापारितायाः शिखाकूरलक्षणोऽग्रपिण्डः, एतान्पिण्डान् निष्कारणो नित्यं भुञ्जानो देशपार्श्वस्थ इति गाथार्थः । 'कुलनिस्साए'गाहा (५१७१३ ) कुलानि-श्राद्धकुलादीनि स्निग्धाहारादिगृद्धस्तन्निश्रया विचरति, आचार्यबालवृद्धग्लानादिनिमित्तं स्थापितानि दानश्रद्धालूनि कुलानि स्थापनाकुलानि कारणमन्तरेणापि तानि प्रविशति, संखण्ड्यन्तेऽस्या जीवा इति संखडी-विवाहादिका तदवलोकनार्थ कौतुकादिना गच्छति, शरीरं चादर्शादिष्ववलोकते, तथा केनचित्सह मातापित्रादिसम्बन्धघटनलक्षणं संस्तवं करोति, अथवा दानलाभात् पूर्वमुत्तरकालं वा दातुर्गुणस्तुतिलक्षणं संस्तवं करोति एष देशपार्श्वस्थ इति गाथार्थः॥ अवसन्नलक्षणमाह-'ओसन्नोऽविय'गाहा (५१७-१४ ) अवसीदति सामाचार्यामित्यवसन्नः, सोऽपि द्विविधः-सर्वतो देशतश्च, तत्र सर्वतः-"उउबद्धपीढफलगो”त्ति-इहैककाष्ठनिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षसन्ध्यादिषु बन्धापगमं कृत्वा प्रत्युपेक्षणीय इत्याज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽत्र बद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एव वा य आस्ते स एवमभिधीयते,
तथा स्थापितभोजी च सर्वावसन्नो ज्ञातव्य इति गाथार्थः । देशावसन्नमाह-'आवस्सय'गाहा 'आवस्सयाइआई'गाहा, ला(५१७-१५), आवश्यके-प्रतिक्रमणादौ स्वाध्याये-वाचनादौ प्रत्युपेक्षणायां-वस्त्रादिसम्बन्धिन्यां ध्याने-शुभमनःप्रवृ
CACASSALGAOACCORK
॥८१॥
JainEducation
For Private
Personal Use Only