SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रस्ता० बनाः ॥४॥ धाच्या भावात्तद्भावित्वं चक्राणैश्च पूज्यैरेनं ग्रन्थं प्रान्तव्युत्पादिता जीवादयःपदार्थानित्यानित्यत्वादिधर्मसंवलिता ज्ञानादिधर्मभिन्नाभिन्ना भाष्यतया अभिप्रेता इति यथार्थाभिधास्य स्याद्वाभाषेति, प्रमाणादिनिरूपणं तु तदङ्गमिति तदपि तथैवाहतं गणिाभिः, स्याद्वादानुगतंप्रमाणादि वा निर्णेयतयाभिप्रेतमत्रात्रभवद्भिरिति तथाभिधास्य,तत्रभवद्भिः के के कृता ग्रन्था इति न ज्ञायते इयत्ता,परं प्रश्नोत्तरसङ्ग्रहावसाने काव्यकल्पलतामक-1 रन्दस्याद्वादभाषेति प्रत्यक्षोपलब्धेस्तस्त्रितयं ग्रन्थानां प्रतेने; १ प्रश्नोत्तरसमुच्चयः (सेनप्रश्नापराभिधानः)२ काव्यकल्पलतामकरन्दः ३ स्यादादभाषेति च, पश्चाच प्रश्नोत्तरादभविष्यन्विहिताः कदाचिदन्थाः परं न ते ज्ञायन्ते तदुल्लेखादिदर्शनाभावात् ; दुर्लभाश्च प्रतयोऽधुनाने कारणत इति तु निणीतं प्रस्तावनाकर्तृभिरनेकैस्तथापि भविष्यन्ति सुलभाः प्रतयस्तदवलोकनानि च श्रेष्ठिवर्यदेवचन्द्रलालभ्रातृनियमितपुस्तकोडारकोशादित्याशासे सागरान्त आनन्दाभिधानोहं श्रमणसङ्घकृपाभिलाषुकः, प्रार्थये च प्रमाय॑ प्रमादजाताम शुद्धिम् वाचयन्त्वेतद् ग्रन्थरत्नम् इति वाचनीयवाचनानिबद्धकक्षान्सज्जनान् , बध्धाञ्जलिश्च तेभ्योऽयं ये ज्ञापयेरनशुद्धिं मदीयां मिथ्यादुष्कृतमुररीकृत्याशुद्धिसत्कं, याचे चात्मना सर्वान्यद्यथायथमवबुध्यात्रत्यं पदार्थजातं श्रद्दधातु सज्जनगणः, आचरतु च यथोपदिष्टमागमानुरागरक्तो निर्द्वन्द्वपदाप्तय इति. भृगुकच्छे रचिता वै, आनन्दयुतेन सागरेण मया; माघे सुपौर्णमास्याम्, ऋषिरसनेवचन्द्रहायने (१९६७) शुभदा ॥१॥ Jain Education For Privale & Personal use only Shww.jainelibrary.org
SR No.600144
Book TitleSyadwadbhasha
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy