________________
सम्यक
स.टी.
एलापाढस्ततःप्रोचे, प्रतीमो नात्र संशयः । कण्डरीकोऽवददामो, वालुङ्यन्तः कथं ममौ ? ॥ १०२ ॥ एलाषाढोऽथ तं स्माह, किं भ्रातर्न श्रुतास्त्वया । दृष्टान्ता विष्णुपुराणे, भारते च किलेदृशाः ॥ १०३॥ आसीत्पुरा जगत्पञ्चमहाभूतविवर्जितम् । जलेनैकार्णवीभूतं, तत्राण्डमभवत्किल ॥ १०४॥ ऊर्मिप्रेङ्खोलनाभिस्तद्भिन्नं त्रिविधतामगात् । त्रिविष्टपमहीपीठरसातलविभेदतः ॥ १०५॥ यद्यण्डे तादृशं सर्व, सममाजगतां त्रयम् । वालुक्यां तर्हि सग्रामः, कथं माति न बान्धवः ? ॥ १०६ ॥ शास्त्रेऽन्यच्चारण्यपथे, मार्कण्डेयोऽवदन्मुनिः। धर्माङ्गजस्यान्ययु-१ गानुभूतं तच्छ्रुतीकुरु ॥ १०७ ॥ सकलाम्भोभिरघ्रोत्थैर्लोक एकार्णवीकृते । लोलकल्लोलमालाभिः, प्रेर्यमाणोऽम्बुधौ गतः ॥ १०८ ॥ सर्वशून्यं जलाकीण, जगत्पश्यन्नृषिस्ततः। एकं तत्र महाकायं, वटवृक्षमुदैक्षत ॥ १०९॥ शाखायां तस्य पल्यङ्कमपश्यत् तत्र चार्भकम् । सर्वाङ्गसुन्दराकारं, तेजस्तर्जितभास्करम् ॥ ११० ॥ प्रसारितकरं तं चावादीदेोहि दारक! । ममांसे लग तेऽम्भस्सु, पतनान्मा स्म गान्मृतिः ॥ १११ ॥ सोऽप्यसमवलम्ब्यास्यावतारीत्स ततो 2 मुनिः । आस्ये प्रसारितेऽपश्यद्विश्वं तस्योदरेऽखिलम् ॥ ११२ ॥ प्रविष्टस्तत्र वर्षाणां, सहस्रं दिव्यमअसा । भ्रमन्पारमपारस्य, नापपिर्निरगात्ततः ॥ ११३॥ सशैलकाननं विश्वं, ममौ चेद्दारकोदरे। तदा माति न किं ? ग्रामो, वालुक्यां कण्डरीक भोः! ॥११४॥ ढिङ्कोदरे ह्यजगरस्तस्याजाऽस्याश्च चर्भटी। तस्यां ग्रामः कथमिति, प्राख्यस्तच्छृणु वम्यहम् 8 ॥ ११५॥ यदि त्रिजगती सर्वा, ममौ विष्णोः किलोदरे। कुक्षौ सोऽपि हि देवक्यास्तल्पस्याभ्यन्तरेऽपि सा ॥११६॥
CARICROCKSCHECCCCC
॥३५॥
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org