SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कूपारामसरोराजीराजितं ग्राममासदम् ॥८६॥ तस्य मध्ये महाकायः, सच्छायो वटपादपः। कमलाख्यो महायक्षस्तन्मूलमधितिष्ठति ॥ ८७॥ पञ्चोपचारबलिभिः, स जनैः पूजितोऽनिशम् । समीहितं वरं दत्ते, को न मान्यो भवेद्गुणैः? ॥८८॥ ततस्तं कौतुकात् यक्षं, नत्वा ग्राम्यजनेष्वहम् । यावद्विचित्रक्रीडाभिरात्मानं स्म विनोदये ॥८९॥ सन्नद्धवद्धकवचा, विविधायुधपाणयः । सुतरां दारुणास्तावन्निपेतुस्तत्र तस्कराः ॥९॥ सवालवृद्धाः सस्त्रीका, ग्राम्या जनपदान्विताः । पशुभिश्च समं भीत्या, वालुङ्कयां विविशुद्धतम् ॥ ९१॥ तत्रस्थानपि तान् ग्राम्यानपश्यन्तोऽन्धला इव । चौरास्ततस्ते व्यावृत्ता, नष्टो ग्राम इतीरिणः॥९२॥ पशुवृन्दं चरत्तत्र, विश्वस्तं समुपेयिवत् । तन्मध्यादेकया छाग्या, वालुकी परिजनसे ॥ ९३ ॥ साऽपि ग्रस्ताऽजगरेण, सोऽपि ढिङ्केन जनसे । स चोड्डीय वटेऽतिष्ठभूमिप्राप्तपदः खगः। ४॥९४॥ तत्र केनापि भूपेन, सैन्यावासे विनिर्मिते । स्तम्भभ्रान्त्या ढिकपादे, बद्धो मिण्ठेन कुञ्जरः॥९५ ॥ ढिङ्केनोड्डीदीयमानेन, सह यान्तं विलोक्य तम् । पूचक्रुरिति हा मिण्ठाः!, केनापि हियते करी ॥ ९६ ॥ तेषां कलकलं श्रुत्वा, सुभटाः शब्दवेधिनः । तत्रैयुर्व्याकुला वाणवाणासनकरा रयात् ॥९७ ॥ सुभटैः शरधोरण्या, च्छिन्नमूर्धा वटच्युतः ।। पाढिपक्षी पपाताऽऽशु, वज्रपात इव क्षितौ ॥९८॥ पक्ष्यङ्गे दारिते राज्ञाऽजगरो निरगात्ततः । अजा तस्याश्च वालुङ्की, ततोग्रामादयोऽखिलाः॥ ९९ ॥ ते सर्वे नृपतिं नत्वा, खखवस्तुसमन्विताः। निजं स्थानं ययुरहमत्रायातश्च सम्प्रति ॥ १०० ॥ एवं मयाऽनुभूतं भो!, गदितं भवतां पुरः । यो न मन्येत धूर्तानां, स ददात्वद्य भोजमम् ॥ १०१॥ MARCHCRACANCIESCONCERMANCHEC Jain Education anal For Private & Personal Use Only ainebrary 09
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy