SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ सम्यक ॥२३७॥ CARCICROREGA त्तेजिता विवृतिशाणकयत्रयोगात् ॥ १॥ जैनं वाक्यमनन्तार्थ, शेमुषी नः कृशा भृशम् । अत उक्तं यदुत्सूत्रं, त-11स. टी. न्मिथ्यादुष्कृतं मम ॥२॥ । इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्या सम्यक्त्वस्थानषदखरूपनिरूपणो नाम द्वादशोऽधिकारः समाप्तः ॥ ____ अथ प्रशस्तिः-श्रीवीरशासनमहोदधितः प्रसूतः, प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महःप्रसरनाशिततामसोऽस्ति, श्रीचन्द्रगच्छ इति चन्द्र इवाद्भुतश्रीः ॥१॥ तत्रासीद्धरणेन्द्रवन्धचरणः श्रीवर्द्धमानो गुरुस्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रगन्नवाङ्गीमहावृत्तिस्तम्भनपार्श्वनाथजिनराइमूर्तिप्रकाशैककृत् ॥२॥ तत्पट्टपूर्वाचलचूलिकायां, भाखानिव श्रीजिनवल्भाख्यः । सचक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्चत्कलालङ्कृतः ॥४॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः । ॥५॥ तत्पादाम्भोजभृङ्गोऽजनि जिनसमयाम्भोधिपाथोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेघोपमानः। ॥२३७॥ तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६ ॥ Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy