________________
SACROSSACROREGAONG+
यतमानोऽधिकं राजा, पुण्यश्रियमपूपुषत् ॥ १६० ॥ श्रीनिर्गतसुखक्षोणीविडोजा बोधिबीजतः । पुण्यकल्पद्रुमारोप्य, चकृवान् फलशालिनम् ॥ १६१ ॥ क्रमेण दैवतश्रीणामुपभोगपरम्पराम् । भुक्त्वा भवे पश्चमे स, श्रयिष्यति शिवश्रियम् ॥ १६२॥ कर्णावतंसपदवीमिति सुन्दरस्य, चित्रं चरित्रमतिचारुगुणं प्रणीय । सङ्घ गुरौ जिनवरे परमादरेण, कार्या रतिः शिवरमापरिरम्भणाय ॥१६३॥ देवगुर्वादिभक्तिविषये सुन्दरकथा । ___ अथ सर्वशास्त्रार्थ निगमयन्नाह६ इय भाविऊण तत्तं, गुरुआणाराहणे कुणह जत्तं । जेणं सिवसुक्खबीयं, दंसणसुद्धिं धुवं लहह ॥७०॥ ___ व्याख्या-'इति' पूर्वोक्तं 'तत्त्वं' परमरहस्यं 'भावयित्वा' विचार्य 'गुर्वाज्ञाराधने' सद्गुरुवचनसेवायां 'यत्नम्' आदरं 'कुरुत' विधत्त, अर्थाद्भो भव्या इति, न हि गुर्वाज्ञाऽऽराधनमन्तरेण कदाचनाप्यभीष्टफलसिद्धिः । यदागमः-"महागमा आयरिया महेसी, समाहिजोगे सुयसीलबुद्धिए संपाविउकामेणऽणुत्तराई, आराहए तोसइ धम्मकामी ॥१॥" 'येन' हेतुना 'शिवसौख्यबीजां' मोक्षसुखबीजभूतां 'दर्शनशुद्धिं' सम्यक्त्वनिर्मलतां 'ध्रुवम्' अवश्यं 'लभध्वं' समश्रुत । अत्र शिवशब्दोपादानमासूत्रयता शास्त्रकृता शास्त्रप्रान्ते मङ्गलसूचा कृता, यतो मङ्गलादीनि मङ्गलमध्यानि मङ्गलावसानानि शास्त्राणि विदुषामुपादेयानि निःश्रेयससाधकानि च भवन्तीति गाथार्थः ॥ ७॥ | या श्रीजिनेशसमयाम्बुधितो गृहीत्वा, सम्यक्त्वतत्त्वमणिसप्ततिका व्यधायि । पूर्वैमुनीश्वरवरैरधुना मया तु, सो
Jain Education
For Private & Pasonal use
ty
hinelibrary.org