SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Jain Education inte कर्णे वाणेष्विव गतेष्वेषां वाक्येषु भूपतिः । कोपात् सर्वाभिसारेण तं प्रति प्रास्थित द्रुतम् ॥ १३१ ॥ सुदारुणं रणं कृत्वा, जगदाश्चर्यकारणम् । बद्धः पाशेन भूपेन, सूरतेजाः प्रजापतिः ॥ १३२ ॥ दीनाननः पदोर, स शत्रुस्तेन पातितः । अब्रवीत्ते धरिष्यामि, वेलां बेलाधराद्रिवत् ॥ १३३ ॥ तं मोचयित्वा सच्चक्रे, भूशक्रः सकृपाशयः । सरणिमनवित्तानामयमेव विजृम्भते ॥ १३४ ॥ सोऽपि पीनस्तनाभोगां, स्मेरपङ्कजलोचनाम् । देवीमिव भुवं द्रष्टुमवतीर्णा कुतूहलात् ॥ १३५ ॥ निर्मालितरतिप्रीतिं, रूपनिर्जितरुक्मिणीम् । यशोमत्यभिधां पुत्रीं खां राज्ञा पर्यणाययत् ॥१३६॥ युग्मम् । तदाज्ञां मस्तके रक्षामिव धृत्वा खपत्तने । सूरतेजा ययौ का हि स्पर्द्धा शौण्डीर्यशालिषु ? ॥ १३७ ॥ उत्पताकां तक्षशिलां, स प्रविश्य निजां पुरीम् । एकच्छत्रं महीचक्रं, चक्रीव प्रत्यपालयत् ॥ १३८ ॥ प्रेयसीभिश्चतसृभिर्युसदामिव नायकः । महाभोगान् मुदाभोगानसेवत नृपोत्तमः ॥ १३९ ॥ प्रत्येकं तासु कान्तासु, राजा पुत्रानजीजनत् । सागरानिव गम्भीरान्, ससारान् भूधरानिव ॥ १४० ॥ चत्वारोऽपि हि चातुर्यवर्यशौर्यदयोल्बणाः । लावण्यपुण्याः संवृत्ता, माधवस्येव वासराः ॥ १४१ ॥ अथ तस्य महीशस्य, वैशद्ययुजि मानसे । विललास विवेकाख्यो, मरालो विश्वहर्षकृत् ॥ १४२ ॥ तस्मिंश्च जाते दध्यौ स राजा किं पूर्वजन्मनि । निरमायि मया पुण्यं ?, | राज्यान्येतानि यत्फलम् ॥ १४३ ॥ अत्रान्तरे रयादेव, समेत्योद्यानपालकः । नमन्मौलिः सभासंस्थं, राजहंसं व्यजिज्ञत् ॥ १४४ ॥ देवाद्य नन्दनोद्याने, धर्मघोषोऽभिधानतः । चतुर्ज्ञानघरः सूरिशेखरः समवासरत् ॥ १४५ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy