SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ RAMMARCASSAGAURCle हढे निश्चले सति 'मोक्षफलं' मुक्तिसुखफलं ददातीति प्रथमा भावना । 'मुत्तंत्ति 'धर्मनगरे पुण्यपरे दर्शनद्वार मुक्त्वा विहाय 'न प्रवेशो' नान्तर्गमनम् , अपरस्मिन्नपि नगरे गोपुरद्वारं विना प्रवेशो न स्यादिति द्वितीया भावना। 'नंदइ'त्ति 'व्रतप्रासादो' यतिश्राद्धव्रतसौधं 'दर्शनपीठे' सम्यक्त्वस्थटकबन्धे 'सुप्रतिष्ठे' समन्तान्निश्चले 'नन्दति' चिरकालं तिष्ठतीति तृतीया भावना। 'मूलु'त्ति (मूलु इत्यादि ) मूलगुणाः-पञ्च महाव्रतानि उत्तरगुणास्तु पिण्डविशुध्ध्यादयः, ते चामी-"पिंडस्स जा विसोही समिइओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तर-18 गुणमो वियाणाहि ॥१॥" श्रावकस्य तु मूलगुणाः पञ्चाणुव्रतानि उत्तरगुणास्त्रीणि गुणव्रतानि चत्वारि शिक्षात्र-18 तानि, अथवा “पञ्चक्खाणाऽभिग्गह सिक्खा तैव पडिमै भावणौखित्तो । धम्मो चिंता पूयाँ गिहि उत्तरगुण इगुणनउई ॥१॥” एत एव रत्नानि उत्कृष्टत्वादुपादेयत्वाच वसूनि तेषां मूलोत्तरगुणानाम् 'अक्षयं' शाश्वतं निधानमिव निधिरक्षयनिधानं 'दर्शन' सम्यक्त्वं स्यात् , यथा निधानं विना रत्नानां नावस्थितिः तथा सम्यक्त्वमन्तरेण मूलोत्तरगुणानामपि नावस्थानमिति चतुर्थी भावना । 'सम्मत्त'त्ति 'सम्यक्त्वं' क्षायिकक्षायोपशमिकौपशमिकवेदकसास्वादनरूपं सम्यग्दर्शनं अभेदोपचारात्तदेव 'महाधरणी' अशीतिसहस्राधिकलक्षयोजनमानतिर्यग्रज्जुप्रमाणायामा सङ्ख्यातीतद्वीपसमुद्रपरिवेष्टिता भूमिः 'आधारो' निश्चलमवस्थानं, कस्य ?-'चरणजीवलोकस्य' चरणं-चारित्रं तत्प्रधानो यो लोको-विशिष्टतरभव्यप्राणिगणस्तस्य, यथा सचराचरजीवलोकस्य भूमिराधारस्तथा चरणजीवलोकस्य Jain Education a l For Privale & Personal Use Only Hainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy