SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ WARRIERRERAKAR म्याक्रम्य क्रमेण भोः!। महीमकार्णवां कर्ताऽभैषीच्छुत्वेति पूर्जनः ॥५५॥ भोऽम्बुवाहो महावेगात् , समाच्छाद्य नमोऽङ्गणम् । गर्जन्नवोधैर्वधिरीचक्रे ब्रह्माण्डमण्डलम् ॥५६॥ प्रचण्डतडिदाटोपर्भेदयन् रोदसीमसौ । मुशलाकारधाराभिर्वपति स्म स्मयादिय ॥ ५७॥ पश्यतामेव लोकानां, निमज्ज्य सकलं पुरम् । आस्थानमण्डपं प्राप, भूपस्य जलमुग्जलम् ॥ ५८ ॥ तत उत्थाय भूनेताऽमात्यनैमित्तिकान्वितः। भयव्याकुलितः सौधस्यारोहत्सप्तमं क्षणम् ॥ ५९॥ मन्दरक्षुब्धपाथोधिध्वानसन्निभनिखनैः। आक्रन्दतो जनांस्तत्र, स्थितो भूरमणोऽशृणोत् ॥ ६० ॥ हा वत्स वत्स! हा तात !, हा मातर्हन्त बान्धव! । अस्मादुपद्रयाद्रौद्रात् , कथंकारं छुटिष्यते ॥ ६१ ॥ इति प्रलापांल्लोकानां, यावहाच्छृण्वन् स्थितो नृपः । तावत्प्रापाशु सौधस्य, सलिलं सप्तमं क्षणम् ॥६२ ॥ तद्विलोक्यालपद्भूपो, मत्रिणं भतिसाग रम् । हहा यकृतपुण्यानामस्माकं मृत्युरीयिवान् ॥६३॥ मया श्रावकवंश्येनाप्यहो भोगैकगृधुना। मुधाऽयं गमितः कालस्तत्सम्प्रति करोमि किम् ? ॥ ६४ ॥ चिन्तारत्ननिभं नृत्वं, वृथा गमयता मया। राज्यभोगप्रसक्तेनाग्राहि कोट्या हि काकिनी ॥६५॥ किं कुर्मः कं स्मरामो वा, पूत्कूर्मः कस्य चाग्रतः? । पतिता आपदम्भोधावगाधेऽनवधौ है वयम् ॥६६॥ एवं वदत एव मात्रघ्नस्तत्र रंहसा । सलिलं लोलकल्लोलमालं पादान्तमापतत् ॥ ६७॥ भीतः पञ्चनमस्कारं, यावत्सस्मार भूधवः । तावदेकं महापोतमभ्यायान्तमुदैक्षत ॥ ६८॥ वलभ्यां तस्य सौधस्य, तं प्राप्त १ वीक्ष्य मत्रिराट् । स्वामिनं स्माह देवामुं, पोतमारुह वेगतः ॥ ६९ ॥ अवैमि कोऽपि देवो वोऽगण्यपुण्यवशंवदः । Jain Education o nal For Private &Personal use Only Mainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy