________________
सम्य०
॥ १६२॥
मंडे - " जहा कओ तीइ वरंगणाए, महाणुराओ परिवायगम्मि । तहेव धम्मे जिणभासियम्मि, धरेह रायं सिवदत्तचित्ता ! ॥ १ ॥ भक्तिरागे बाह्याभ्यन्तररूपकामिनीकथा । तृतीयं भक्तिरूपं भूषणमुक्त्वा चतुर्थ स्थैर्याख्यं भूषणं गाथातृतीयपादेनाह
" थिरया दढसम्मत्तं" ।
व्याख्या - दृढसम्यक्त्वं स्थिरता भवतीति सम्बन्धः, श्रीमदर्हद्धर्म्म प्रत्यदृढचित्तानां दाढर्योत्पादनेन सम्यक्त्वपरिभावनं दृढसम्यक्त्वं, तथा कश्चनापि शाक्यादिदर्शनमाहात्म्यलवं बाह्यदृशा दृष्ट्वा धर्म्माचलेत् तस्य यत् दृढत्वापादानं तत् स्थैर्य, यतो दृढधम्मैव प्रशस्यते, यदुक्तं स्थानाङ्गे - चत्तारि पुरिसजाया पन्नत्ता, तंजहा -पियधम्मे नामं एगे नो ददधम्मे १, दढधम्मे नामं एगे नो पियधम्मे २ एगे पियधम्मेवि दधम्मेवि ३, एगे नो पियधम्मे नो दधम्मेवि ४, । इतिगाथातृतीयपादार्थः । भावार्थस्तु सुलसादृष्टान्ताद् ज्ञेयः । स चायम्
इहैव जम्बूद्वीपाख्ये, द्वीपे शशिकलोपमम् । अस्ति श्रीभारतं नाम, वर्षे हर्षनिबन्धनम् ॥ १ ॥ तत्रास्ति मगधो | देशो, लेशो यत्र न पाप्मनाम् । तत्र सर्वश्रियां क्रीडा - गृहं राजगृहं पुरम् ॥ २ ॥ यत्रोत्तुङ्गजिनाधीशचैत्यानामुपरि | स्थितम् । मध्याह्ने भाखतो बिम्बं द्वितीयकलशायते ॥ ३ ॥ तत्र प्रसेनजिद्भूमी - पतेः सर्वकलाकलः । सारथिर्नाग इत्यासीद्वासवस्येव मातलिः ॥ ४ ॥ तस्य प्रियतमा धर्मा - नालसा मुलसाऽभवत् । यस्यां पतिव्रतामुख्या, अवात्सुः
|
For Private & Personal Use Only
Jain Education International
स० टी०
॥१६२॥
www.jainelibrary.org