SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सम्यक स० टी० ॥१५५॥ RRCASEARCCC कुशिष्यमपश्यन्त इत्यचिन्तयन्- अहो जिनमतमालिन्यमायुगान्तापकीर्तिजनकं तेन दुरात्मना विनिर्मितं । तस्मादस्माकमपि प्राणप्रहाणेनैव दुर्यशःप्रणाशो नेतरथेति निश्चित्य कृतानशनाः पञ्चपरमेष्ठिस्मरणपराः सूरयो गलकन्दले तामेव कृपाणिकां नियोज्य खर्ययुः । ततो जाते प्रभाते राजलोका विज्ञातनृपगुरुमृत्यवस्तमेव पापीयांसं निनिन्दुः। स च गवेष्यमाणोऽपि तैः क्वापि नाऽऽपि । तदनु स दुष्टो नंष्ट्वोजयिनीं गत्वाऽवन्तीशाने राजनिग्रहखरूपं यथावजगाद । तेनाप्यद्रष्टव्यमुखोऽयं पापी धर्मविप्लवकारको निर्वासितः खपुरात् , नहि क्वापि पापिनां समीहितसिद्धि भवति । उदायिनृपतिस्तु तादृक्रियाकौशल्यासेवनात् सुरपुराभरणीवभूव ।-इत्थं श्रीमदुदायिनो वसुमतीवज्रायुधस्यादाखिलं, चित्रं चारुचरित्रमत्र सुतरां कर्णे निधायाऽब्जयत् । श्रीमजैनविधी बुधाः! कुशलतामासूत्र्य सम्भूष्यता, का सम्यक्त्वं भवतां यथेप्सितरमा साऽऽनन्दमालिङ्गति ॥ १॥ कुशलताविषये श्रीउदायिनृपकथा । कौशल्यं नामादिम भूषणमुक्त्वा द्वितीयं तीर्थसेवाख्यं भूषणं गाथोत्तरार्द्धनाह तित्थनिसेवा य सयं संविग्गजणेण संसग्गी ॥ ४१ ॥ व्याख्या-तीर्यते संसारसागरोऽनेन तीर्थ-श्रीयुगादिदेवप्रभृतिजिनगृहविभूषितश्रीमच्छत्रुञ्जयाष्टापदाद्रिप्रमुखस्थानवृन्दं तस्य नितरां सेवा-अश्रान्तयात्राकरणं, तद्यात्रा हि क्रियमाणा महते गुणाय कल्पते । उक्तं च-ते धन्याधनिनस्त एव च वशीभूतत्रिलोकश्रियस्तेषामेव सदैव हन्त फलितं पुण्यैः पुरोपार्जितैः । तेषां जन्म च जीवितं च। ॥१५५|| Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy